अथाष्टमोऽध्यायः

श्रीशुक उवाच

हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता

चम्पापुरी सुदेवोऽतो विजयो यस्य चात्मजः १

भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः

सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् २

वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती

और्वेण जानतात्मानं प्रजावन्तं निवारिता ३

आज्ञायास्यै सपत्नीभिर्गरो दत्तोऽन्धसा सह

सह तेनैव सञ्जातः सगराख्यो महायशाः ४

सगरश्चक्रवर्त्यासीत्सागरो यत्सुतैः कृतः

यस्तालजङ्घान्यवनाञ्छकान्हैहयबर्बरान् ५

नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः

मुण्डान्छ्मश्रुधरान्कांश्चिन्मुक्तकेशार्धमुण्डितान् ६

अनन्तर्वाससः कांश्चिदबहिर्वाससोऽपरान्

सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ७

और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम्

तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ८

सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः

हयमन्वेषमाणास्ते समन्तान्न्यखनन्महीम् ९

प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके

एष वाजिहरश्चौर आस्ते मीलितलोचनः १०

हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः

उदायुधा अभिययुरुन्मिमेष तदा मुनिः ११

स्वशरीराग्निना तावन्महेन्द्र हृतचेतसः

महद्व्यतिक्रमहता भस्मसादभवन्क्षणात् १२

न साधुवादो मुनिकोपभर्जिता नृपेन्द्र पुत्रा इति सत्त्वधामनि

कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः १३

यस्येरिता साङ्ख्यमयी दृढेह नौर्यया मुमुक्षुस्तरते दुरत्ययम्

भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः १४

योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः

तस्य पुत्रोऽक्त्!उमान्नाम पितामहहिते रतः १५

असमञ्जस आत्मानं दर्शयन्नसमञ्जसम्

जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः १६

आचरन्गर्हितं लोके ज्ञातीनां कर्म विप्रियम्

सरय्वां क्रीडतो बालान्प्रास्यदुद्वेजयन्जनम् १७

एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै

योगैश्वर्येण बालांस्तान्दर्शयित्वा ततो ययौ १८

अयोध्यावासिनः सर्वे बालकान्पुनरागतान्

दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत १९

अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ

पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् २०

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम्

अस्तौत्समाहितमनाः प्राञ्जलिः प्रणतो महान् २१

अंशुमानुवाच

न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः

कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः २२

ये देहभाजत्रिगुणप्रधाना गुणान्विपश्यन्त्युत वा तमश्च

यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः २३

तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः

सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि २४

प्रशान्त मायागुणकर्मलिङ्गमनामरूपं सदसद्विमुक्तम्

ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् २५

त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु

भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः २६

अद्य नः सर्वभूतात्मन्कामकर्मेन्द्रि याशयः

मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् २७

श्रीशुक उवाच

इत्थं गीतानुभावस्तं भगवान्कपिलो मुनिः

अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप २८

श्रीभगवानुवाच

अश्वोऽयं नीयतां वत्स पितामहपशुस्तव

इमे च पितरो दग्धा गङ्गाम्भोऽर्हन्ति नेतरत् २९

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत्

सगरस्तेन पशुना यज्ञशेषं समापयत् ३०

राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः

और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सगरोपाख्यानेऽष्टमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः