अथ चतुर्दशोऽध्यायः

श्रीब्रह्मोवाच

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय

गुञ्जावतंसपरिपिच्छलसन्मुखाय

वन्यस्रजे कवलवेत्रविषाणवेणु

लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय १

अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि

नेशे महि त्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः २

ज्ञाने प्रयासमुदपास्य नमन्त एव

जीवन्ति सन्मुखरितां भवदीयवार्ताम्

स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर्

ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ३

श्रेयःसृतिं भक्तिमुदस्य ते विभो

क्लिश्यन्ति ये केवलबोधलब्धये

तेषामसौ क्लेशल एव शिष्यते

नान्यद्यथा स्थूलतुषावघातिनाम् ४

पुरेह भूमन्बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया

विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ५

तथापि भूमन्महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः

अविक्रियात्स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ६

गुणात्मनस्तेऽपि गुणान्विमातुं हितावतीऋनस्य क ईशिरेऽस्य

कालेन यैर्वा विमिताः सुकल्पैर्भूपांशवः खे मिहिका द्युभासः ७

तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम्

हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ८

पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि

मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ९

अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः

अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति १०

क्वाहं तमोमहदहंखचराग्निवार्भू

संवेष्टिताण्डघटसप्तवितस्तिकायः

क्वेदृग्विधाविगणिताण्डपराणुचर्या

वाताध्वरोमविवरस्य च ते महित्वम् ११

उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे

किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः १२

जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात्

विनिर्गतोऽजस्त्विति वाङ्न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि १३

नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी

नारायणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया १४

तच्चेज्जलस्थं तव सज्जगद्वपुः

किं मे न दृष्टं भगवंस्तदैव

किं वा सुदृष्टं हृदि मे तदैव

किं नो सपद्येव पुनर्व्यदर्शि १५

अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य

कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते १६

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा

तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना १७

अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम्

एकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि

तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासितास्

तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते १८

अजानतां त्वत्पदवीमनात्मन्यात्मात्मना भासि वितत्य मायाम्

सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः १९

सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य

जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च २०

को वेत्ति भूमन्भगवन्परात्मन्योगेश्वरोतीर्भवतस्त्रिलोक्याम्

क्व वा कथं वा कति वा कदेति विस्तारयन्क्रीडसि योगमायाम् २१

तस्मादिदं जगदशेषमसत्स्वरूपं

स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम्

त्वय्येव नित्यसुखबोधतनावनन्ते

मायात उद्यदपि यत्सदिवावभाति २२

एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः

नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितोऽमृतः २३

एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते

गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् २४

आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम्

ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा २५

अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात्

अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी २६

त्वामात्मानं परं मत्वा परमात्मानमेव च

आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता २७

अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः

असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः २८

अथापि ते देव पदाम्बुजद्वय प्रसादलेशानुगृहीत एव हि

जानाति तत्त्वं भगवन्महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् २९

तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम्

येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ३०

अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा

यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ३१

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम्

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ३२

एषां तु भाग्यमहिमाच्युत तावदास्ताम्

एकादशैव हि वयं बत भूरिभागाः

एतद्धृषीकचषकैरसकृत्पिबामः

शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ३३

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम्

यज्जीवितं तु निखिलं भगवान्मुकुन्दस्

त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ३४

एषां घोषनिवासिनामुत भवान्किं देव रातेति नश्

चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन्मुह्यति

सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता

यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ३५

तावद्रा गादयः स्तेनास्तावत्कारागृहं गृहम्

तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ३६

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले

प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ३७

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो

मनसो वपुषो वाचो वैभवं तव गोचरः ३८

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक्

त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ३९

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्

क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन्

उद्धर्मशार्वरहर क्षितिराक्षसध्रुग्

आकल्पमार्कमर्हन्भगवन्नमस्ते ४०

श्रीशुक उवाच

इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः

नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ४१

ततोऽनुज्ञाप्य भगवान्स्वभुवं प्रागवस्थितान्

वत्सान्पुलिनमानिन्ये यथापूर्वसखं स्वकम् ४२

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः

कृष्णमायाहता राजन्क्षणार्धं मेनिरेऽर्भकाः ४३

किं किं न विस्मरन्तीह मायामोहितचेतसः

यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् ४४

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा

नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ४५

ततो हसन्हृषीकेशोऽभ्यवहृत्य सहार्भकैः

दर्शयंश्चर्माजगरं न्यवर्तत वनाद्व्रजम् ४६

बर्हप्रसूनवनधातुविचित्रिताङ्गः

प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः

वत्सान्गृणन्ननुगगीतपवित्रकीर्तिर्

गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ४७

अद्यानेन महाव्यालो यशोदानन्दसूनुना

हतोऽविता वयं चास्मादिति बाला व्रजे जगुः ४८

श्रीराजोवाच

ब्रह्मन्परोद्भवे कृषे! इयान्प्रेमा कथं भवेत्

योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ४९

श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः

इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ५०

तद्रा जेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम्

न तथा ममतालम्बि पुत्रवित्तगृहादिषु ५१

देहात्मवादिनां पुंसामपि राजन्यसत्तम

यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ५२

देहोऽपि ममताभाक्चेत्तर्ह्यसौ नात्मवत्प्रियः

यज्जीर्यत्यपि देहेऽस्मिन्जीविताशा बलीयसी ५३

तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम्

तदर्थमेव सकलं जगदेतच्चराचरम् ५४

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम्

जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ५५

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च

भगवद्रू पमखिलं नान्यद्वस्त्विह किञ्चन ५६

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः

तस्यापि भगवान्कृष्णः किमतद्वस्तु रूप्यताम् ५७

समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः

भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम् ५८

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया

तत्कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ५९

एतत्सुहृद्भिश्चरितं मुरारेरघार्दनं शाद्वलजेमनं च

व्यक्तेतरद्रू पमजोर्वभिष्टवं शृण्वन्गृणन्नेति नरोऽखिलार्थान् ६०

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ६१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः