अथ चतुर्दशोऽध्यायः

मैत्रेय उवाच

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः

गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् १

वीरमातरमाहूय सुनीथां ब्रह्मवादिनः

प्रकृत्यसम्मतं वेनमभ्यषिञ्चन्पतिं भुवः २

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम्

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ३

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः

अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ४

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः

पर्यटन्रथमास्थाय कम्पयन्निव रोदसी ५

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित्

इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ६

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम्

विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ७

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत्

दारुण्युभयतो दीप्ते इव तस्करपालयोः ८

अराजकभयादेष कृतो राजातदर्हणः

ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ९

अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत्

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः १०

निरूपितः प्रजापालः स जिघांसति वै प्रजाः

तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ११

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् १२

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा

एवमध्यवसायैनं मुनयो गूढमन्यवः

उपव्रज्याब्रुवन्वेनं सान्त्वयित्वा च सामभिः १३

मुनय ऊचुः

नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः

आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् १४

धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः

लोकान्विशोकान्वितरत्यथानन्त्यमसङ्गिनाम् १५

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः

यस्मिन्विनष्टे नृपतिरैश्वर्यादवरोहति १६

राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः

रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते १७

यस्य राष्ट्रे पुरे चैव भगवान्यज्ञपूरुषः

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः १८

तस्य राज्ञो महाभाग भगवान्भूतभावनः

परितुष्यति विश्वात्मा तिष्ठतो निजशासने १९

तस्मिंस्तुष्टे किमप्राप्यंजगतामीश्वरेश्वरे

लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः २०

तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्र व्यमयं तपोमयम्

यज्ञैर्विचित्रैर्यजतो भवाय ते राजन्स्वदेशाननुरोद्धुमर्हसि २१

यज्ञेन युष्मद्विषये द्विजातिभिर्वितायमानेन सुराः कला हरेः

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् २२

वेन उवाच

बालिशा बत यूयं वा अधर्मे धर्ममानिनः

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते २३

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम्

नानुविन्दन्ति ते भद्र मिह लोके परत्र च २४

को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी

भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् २५

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः

पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः २६

एते चान्ये च विबुधाः प्रभवो वरशापयोः

देहे भवन्ति नृपतेः सर्वदेवमयो नृपः २७

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक्पुमान् २८

मैत्रेय उवाच

इत्थं विपर्ययमतिः पापीयानुत्पथं गतः

अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः २९

इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना

भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ३०

हन्यतां हन्यतामेष पापः प्रकृतिदारुणः

जीवन्जगदसावाशु कुरुते भस्मसाद्ध्रुवम् ३१

नायमर्हत्यसद्वृत्तो नरदेववरासनम्

योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ३२

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम्

प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ३३

इत्थं व्यवसिता हन्तुमृषयो रूढमन्यवः

निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ३४

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम्

सुनीथा पालयामास विद्यायोगेन शोचती ३५

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः

हुत्वाग्नीन्सत्कथाश्चक्रुरुपविष्टाः सरित्तटे ३६

वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान्

अप्यभद्र मनाथाया दस्युभ्यो न भवेद्भुवः ३७

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम्

पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम् ३८

तदुपद्र वमाज्ञाय लोकस्य वसु लुम्पताम्

भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ३९

चोरप्रायं जनपदं हीनसत्त्वमराजकम्

लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ४०

ब्राह्मणः समदृक्शान्तो दीनानां समुपेक्षकः

स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ४१

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति

अमोघवीर्या हि नृपा वंशेऽस्मिन्केशवाश्रयाः ४२

विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः

ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ४३

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः

ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ४४

तं तु तेऽवनतं दीनं किं करोमीति वादिनम्

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ४५

तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः

येनाहरज्जायमानो वेनकल्मषमुल्बणम् ४६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषाद्रो त्पत्तिर्नाम चतुर्दशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः