अथाष्टपञ्चाशत्तमोऽध्यायः

श्रीशुक उवाच

एकदा पाण्डवान्द्र ष्टुं प्रतीतान्पुरुषोत्तमः

इन्द्र प्रस्थं गतः शृईमान्युयुधानादिभिर्वृतः १

दृष्ट्वा तमागतं पार्था मुकुन्दमखिलेश्वरम्

उत्तस्थुर्युगपद्वीराः प्राणा मुख्यमिवागतम् २

परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः

सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ३

युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम्

फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ४

परमासन आसीनं कृष्णा कृष्णमनिन्दिता

नवोढा व्रीडिता किञ्चिच्छनैरेत्याभ्यवन्दत ५

तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः

निषसादासनेऽन्ये च पूजिताः पर्युपासत ६

पृथाम्समागत्य कृताभिवादनस्तयातिहार्दार्द्र दृशाभिरम्भितः

आपृष्टवांस्तां कुशलं सहस्नुषां पितृष्वसारम्परिपृष्टबान्धवः ७

तमाह प्रेमवैक्लव्य रुद्धकण्ठाश्रुलोचना

स्मरन्ती तान्बहून्क्लेशान्क्लेशापायात्मदर्शनम् ८

तदैव कुशलं नोऽभूत्सनाथास्ते कृता वयम्

ज्ञतीन्नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया ९

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः

तथापि स्मरतां शश्वत्क्लेशान्हंसि हृदि स्थितः १०

युधिष्ठिर उवाच

किं न आचरितं श्रेयो न वेदाहमधीश्वर

योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम् ११

इति वै वार्षिकान्मासान्राज्ञा सोऽभ्यर्थितः सुखम्

जनयन्नयनानन्दमिन्द्र प्रस्थौकसां विभुः १२

एकदा रथमारुह्य विजयो वानरध्वजम्

गाण्डीवं धनुरादाय तूणौ चाक्षयसायकौ १३

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत्

बहुव्यालमृगाकीर्णं प्राविशत्परवीरहा १४

तत्राविध्यच्छरैर्व्याघ्रान्शूकरान्महिषान्रुरून्

शरभान्गवयान्खड्गान्हरिणान्शशशल्लकान् १५

तान्निन्युः किङ्करा राज्ञे मेध्यान्पर्वण्युपागते

तृट्परीतः परिश्रान्तो बिभत्सुर्यमुनामगात् १६

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ

कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् १७

तामासाद्य वरारोहां सुद्विजां रुचिराननाम्

पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् १८

का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि

मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने १९

श्रीकालिन्द्युवाच

अहं देवस्य सवितुर्दुहिता पतिमिच्छती

विष्णुं वरेण्यं वरदं तपः परममास्थितः २०

नान्यं पतिं वृणे वीर तमृते श्रीनिकेतनम्

तुष्यतां मे स भगवान्मुकुन्दोऽनाथसंश्रयः २१

कालिन्दीति समाख्याता वसामि यमुनाजले

निर्मिते भवने पित्रा यावदच्युतदर्शनम् २२

तथावदद्गुडाकेशो वासुदेवाय सोऽपि ताम्

रथमारोप्य तद्विद्वान्धर्मराजमुपागमत् २३

यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम्

कारयामास नगरं विचित्रं विश्वकर्मणा २४

भगवांस्तत्र निवसन्स्वानां प्रियचिकीर्षया

अग्नये खाण्डवं दातुमर्जुनस्यास सारथिः २५

सोऽग्निस्तुष्टो धनुरदाद्धयान्श्वेतान्रथं नृप

अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः २६

मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्

यस्मिन्दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः २७

स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः

आययौ द्वारकां भूयः सात्यकिप्रमखैर्वृतः २८

अथोपयेमे कालिन्दीं सुपुण्यर्त्वृक्ष ऊर्जिते

वितन्वन्परमानन्दं स्वानां परममङ्गलः २९

विन्द्यानुविन्द्यावावन्त्यौ दुर्योधनवशानुगौ

स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ३०

राजाधिदेव्यास्तनयां मित्रविन्दां पितृष्वसुः

प्रसह्य हृतवान्कृष्णो राजन्राज्ञां प्रपश्यताम् ३१

नग्नजिन्नाम कौशल्य आसीद्रा जातिधार्मिकः

तस्य सत्याभवत्कन्या देवी नाग्नजिती नृप ३२

न तां शेकुर्नृपा वोढुमजित्वा सप्तगोवृषान्

तीक्ष्णशृङ्गान्सुदुर्धर्षान्वीर्यगन्धासहान्खलान् ३३

तां श्रुत्वा वृषजिल्लभ्यां भगवान्सात्वतां पतिः

जगाम कौशल्यपुरं सैन्येन महता वृतः ३४

स कोशलपतिः प्रीतः प्रत्युत्थानासनादिभिः

अर्हणेनापि गुरुणा पूजयन्प्रतिनन्दितः ३५

वरं विलोक्याभिमतं समागतं नरेन्द्र कन्या चकमे रमापतिम्

भूयादयं मे पतिराशिषोऽनलः करोतु सत्या यदि मे धृतो व्रतः ३६

यत्पादपङ्कजरजः शिरसा बिभर्ति

शृईरब्यजः सगिरिशः सह लोकपालैः

लीलातनुः स्वकृतसेतुपरीप्सया यः

कालेऽदधत्स भगवान्मम केन तुष्येत् ३७

अर्चितं पुनरित्याह नारायण जगत्पते

आत्मानन्देन पूर्णस्य करवाणि किमल्पकः ३८

श्रीशुक उवाच

तमाह भगवान्हृष्टः कृतासनपरिग्रहः

मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ३९

श्रीभगवानुवाच

नरेन्द्र याच्ञा कविभिर्विगर्हिता राजन्यबन्धोर्निजधर्मवर्तिनः

तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम् ४०

श्रीराजोवाच

कोऽन्यस्तेऽभ्यधिको नाथ कन्यावर इहेप्सितः

गुणैकधाम्नो यस्याङ्गे श्रीर्वसत्यनपायिनी ४१

किन्त्वस्माभिः कृतः पूर्वं समयः सात्वतर्षभ

पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ४२

सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः

एतैर्भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः ४३

यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन

वरो भवानभिमतो दुहितुर्मे श्रियःपते ४४

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः

आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलयैव तान् ४५

बद्ध्वा तान्दामभिः शौरिर्भग्नदर्पान्हतौजसः

व्यकर्सल्लीलया बद्धान्बालो दारुमयान्यथा ४६

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः

तां प्रत्यगृह्णाद्भगवान्विधिवत्सदृशीं प्रभुः ४७

राजपत्न्यश्च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्

लेभिरे परमानन्दं जातश्च परमोत्सवः ४८

शङ्खभेर्यानका नेदुर्गीतवाद्यद्विजाशिषः

नरा नार्यः प्रमुदिताः सुवासःस्रगलङ्कृताः ४९

दशधेनुसहस्राणि पारिबर्हमदाद्विभुः

युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम् ५०

नवनागसहस्राणि नागाच्छतगुणान्रथान्

रथाच्छतगुणानश्वानश्वाच्छतगुणान्नरान् ५१

दम्पती रथमारोप्य महत्या सेनया वृतौ

स्नेहप्रक्लिन्नहृदयो यापयामास कोशलः ५२

श्रुत्वैतद्रुरुधुर्भूपा नयन्तं पथि कन्यकाम्

भग्नवीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा ५३

तानस्यतः शरव्रातान्बन्धुप्रियकृदर्जुनः

गाण्डीवी कालयामास सिंहः क्षुद्र मृगानिव ५४

पारिबर्हमुपागृह्य द्वारकामेत्य सत्यया

रेमे यदूनामृषभो भगवान्देवकीसुतः ५५

श्रुतकीर्तेः सुतां भद्रां! उपयेमे पितृष्वसुः

कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः ५६

सुतां च मद्रा धिपतेर्लक्ष्मणां लक्षणैर्यताम्

स्वयंवरे जहारैकः स सुपर्णः सुधामिव ५७

अन्याश्चैवंविधा भार्याः कृष्णस्यासन्सहस्रशः

भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ५८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धेऽष्टमहिष्युद्वाहो नामाष्टपञ्चाशत्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः