अथैकोनाशीतितमोऽध्यायः

श्रीशुक उवाच

ततः पर्वण्युपावृत्ते प्रचण्डः पांशुवर्षणः

भीमो वायुरभूद्रा जन्पूयगन्धस्तु सर्वशः १

ततोऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम्

अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक् २

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम्

तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ३

सस्मार मूषलं रामः परसैन्यविदारणम्

हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः ४

तमाकृष्य हलाग्रेण बल्वलं गगनेचरम्

मूषलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ५

सोऽपतद्भुवि निर्भिन्न ललाटोऽसृक्समुत्सृजन्

मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः ६

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः

अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा ७

वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजां

रामाय वाससी दिव्ये दिव्यान्याभरणानि च ८

अथ तैरभ्यनुज्ञातः कौशिकीमेत्य ब्राह्मणैः

स्नात्वा सरोवरमगाद्यतः सरयूरास्रवत् ९

अनुस्रोतेन सरयूं प्रयागमुपगम्य सः

स्नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम् १०

गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः

गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे ११

उपस्पृश्य महेन्द्रा द्रौ रामं दृष्ट्वाभिवाद्य च

सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः १२

स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम्

द्र विडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः १३

कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम्

श्रीरन्गाख्यं महापुण्यं यत्र सन्निहितो हरिः १४

ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा

सामुद्रं सेतुमगमत्महापातकनाशनम् १५

तत्रायुतमदाद्धेनूर्ब्राह्मणेभ्यो हलायुधः

कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् १६

तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च

योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम् १७

दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः

ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम्

विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम् १८

ततोऽभिव्रज्य भगवान्केरलांस्तु त्रिगर्तकान्

गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः १९

आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः

तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम् २०

प्रविश्य रेवामगमद्यत्र माहिष्मती पुरी

मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् २१

श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे

सर्वराजन्यनिधनं भारं मेने हृतं भुवः २२

स भीमदुर्योधनयोर्गदाभ्यां युध्यतोर्मृधे

वारयिष्यन्विनशनं जगाम यदुनन्दनः २३

युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि

अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागतः २४

गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ

मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् २५

युवां तुल्यबलौ वीरौ हे राजन्हे वृकोदर

एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् २६

तस्मादेकतरस्येह युवयोः समवीर्ययोः

न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः २७

न तद्वाक्यं जगृहतुर्बद्धवैरौ नृपार्थवत्

अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च २८

दिष्टं तदनुमन्वानो रामो द्वारवतीं ययौ

उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः २९

तं पुनर्नैमिषं प्राप्तमृषयोऽयाजयन्मुदा

क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम् ३०

तेभ्यो विशुद्धं विज्ञानं भगवान्व्यतरद्विभुः

येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः ३१

स्वपत्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः

रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः ३२

ईदृग्विधान्यसङ्ख्यानि बलस्य बलशालिनः

अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ३३

योऽनुस्मरेत रामस्य कर्माण्यद्भुतकर्मणः

सायं प्रातरनन्तस्य विष्णोः स दयितो भवेत् ३४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे बलदेवतीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः