अथैकोनविंशोऽध्यायः

मैत्रेय उवाच

अथादीक्षत राजा तु हयमेधशतेन सः

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती १

तदभिप्रेत्य भगवान्कर्मातिशयमात्मनः

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् २

यत्र यज्ञपतिः साक्षाद्भगवान्हरिरीश्वरः

अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ३

अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः

उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः ४

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ५

कपिलो नारदो दत्तो योगेशाः सनकादयः

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ६

यत्र धर्मदुघा भूमिः सर्वकामदुघा सती

दोग्धि स्माभीप्सितानर्थान्यजमानस्य भारत ७

ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान्

तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ८

सिन्धवो रत्ननिकरान्गिरयोऽन्नं चतुर्विधम्

उपायनमुपाजह्रुः सर्वे लोकाः सपालकाः ९

इति चाधोक्षजेशस्य पृथोस्तु परमोदयम्

असूयन्भगवानिन्द्रः! प्रतिघातमचीकरत् १०

चरमेणाश्वमेधेन यजमाने यजुष्पतिम्

वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहितः ११

तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः १२

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः

अन्वधावत सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् १३

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम्

जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति १४

वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत्

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् १५

एवं वैन्यसुतः प्रोक्तस्त्वरमाणं विहायसा

अन्वद्र वदभिक्रुद्धो रावणं गृध्रराडिव १६

सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट्

वीरः स्वपशुमादाय पितुर्यज्ञमुपेयिवान् १७

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो १८

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः

चषालयूपतश्छन्नो हिरण्यरशनं विभुः १९

अत्रिः सन्दर्शयामास त्वरमाणं विहायसा

कपालखट्वाङ्गधरं वीरो नैनमबाधत २०

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् २१

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत्

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः २२

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया

तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते २३

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया

तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् २४

धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु २५

तदभिज्ञाय भगवान्पृथुः पृथुपराक्रमः

इन्द्रा य कुपितो बाणमादत्तोद्यतकार्मुकः २६

तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम्

निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् २७

वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम्

अयातयामोपहवैरनन्तरं प्रसह्य राजन्जुहवाम तेऽहितम् २८

इत्यामन्त्र्! य क्रतुपतिं विदुरास्यर्त्विजो रुषा

स्रुग्घस्तान्जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत २९

न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनुः

यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ३०

तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः

इन्द्रे णानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ३१

पृथुकीर्तेः पृथोर्भूयात्तर्ह्येकोनशतक्रतुः

अलं ते क्रतुभिः स्विष्टैर्यद्भवान्मोक्षधर्मवित् ३२

नैवात्मने महेन्द्रा य रोषमाहर्तुमर्हसि

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ३३

मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा

यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ३४

क्रतुर्विरमतामेष देवेषु दुरवग्रहः

धर्मव्यतिकरो यत्र पाखण्डैरिन्द्र निर्मितैः ३५

एभिरिन्द्रो पसंसृष्टैः पाखण्डैर्हारिभिर्जनम्

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ३६

भवान्परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम्

वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ३७

स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि

ऐन्द्रीं! च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ३८

मैत्रेय उवाच

इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ३९

कृतावभृथस्नानाय पृथवे भूरिकर्मणे

वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ४०

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः

आशिषो युयुजुः क्षत्तरादिराजाय सत्कृताः ४१

त्वयाहूता महाबाहो सर्व एव समागताः

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ४२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः