अथ षोडशोऽध्यायः

श्रीबादरायणिरुवाच

अथ देवऋषी राजन्सम्परेतं नृपात्मजम्

दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् १

श्रीनारद उवाच

जीवात्मन्पश्य भद्रं ते मातरं पितरं च ते

सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् २

कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः

भुङ्क्ष्व भोगान्पितृप्रत्तानधितिष्ठ नृपासनम् ३

जीव उवाच

कस्मिन्जन्मन्यमी मह्यं पितरो मातरोऽभवन्

कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ४

बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः

सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ५

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः

पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ६

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु

यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ७

एवं योनिगतो जीवः स नित्यो निरहङ्कृतः

यावद्यत्रोपलभ्येत तावत्स्वत्वं हि तस्य तत् ८

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक्

आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ९

न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपि वा

एकः सर्वधियां द्र ष्टा कर्तॄणां गुणदोषयोः १०

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम्

उदासीनवदासीनः परावरदृगीश्वरः ११

श्रीबादरायणिरुवाच

इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा

विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् १२

निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः

तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् १३

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः

बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन्निरूपितम्

यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् १४

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः

गृहान्धकूपान्निष्क्रान्तः सरःपङ्कादिव द्विपः १५

कालिन्द्यां विधिवत्स्नात्वा कृतपुण्यजलक्रियः

मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत १६

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने

भगवान्नारदः प्रीतो विद्यामेतामुवाच ह १७

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि

प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च १८

नमो विज्ञानमात्राय परमानन्दमूर्तये

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये १९

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः

हृषीकेशाय महते नमस्तेऽनन्तमूर्तये २०

वचस्युपरतेऽप्राप्य य एको मनसा सह

अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः २१

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते

मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः २२

यन्न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रि यासवः

अन्तर्बहिश्च विततं व्योमवत्तन्नतोऽस्म्यहम् २३

देहेन्द्रि यप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु

नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति २४

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये

सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन्नमस्ते २५

श्रीशुक उवाच

भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः

ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो २६

चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम्

धारयामास सप्ताहमब्भक्षः सुसमाहितः २७

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया

विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप २८

ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः

जगाम देवदेवस्य शेषस्य चरणान्तिकम् २९

मृणालगौरं शितिवाससं स्फुरत्किरीटकेयूरकटित्रकङ्कणम्

प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ३०

तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः

प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ३१

स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन्मुहुः

प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ३२

ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ

नियम्य सर्वेन्द्रि यबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ३३

चित्रकेतुरुवाच

अजित जितः सममतिभिः साधुभिर्भवान्जितात्मभिर्भवता

विजितास्तेऽपि च भजतामकामात्मनां य आत्मदोऽतिकरुणः ३४

तव विभवः खलु भगवन्जगदुदयस्थितिलयादीनि

विश्वसृजस्तेऽक्त्क्त्!आस्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ३५

परमाणुपरममहतोस्त्वमाद्यन्तान्तरवर्ती त्रयविधुरः

आदावन्तेऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तरालेऽपि ३६

क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः

यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ३७

विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम्

तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ३८

कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि

ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि ३९

जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम्

निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय ४०

विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र

विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ४१

कः क्षेमो निजपरयोः कियान्वार्थः स्वपरद्रुहा धर्मेण

स्वद्रो हात्तव कोपः परसम्पीडया च तथाधर्मः ४२

न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः

स्थिरचरसत्त्वकदम्बेष्वपृथग्धियो यमुपासते त्वार्याः ४३

न हि भगवन्नघटितमिदं त्वद्दर्शनान्नृणामखिलपापक्षयः

यन्नाम सकृच्छ्रवणात्पुक्कशोऽपि विमुच्यते संसारात् ४४

अथ भगवन्वयमधुना त्वदवलोकपरिमृष्टाशयमलाः

सुरऋषिणा यत्कथितं तावकेन कथमन्यथा भवति ४५

विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम्

विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ४६

नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय

दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ४७

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति

यं चेकितानमनु चित्तय उच्चकन्ति

भूमण्डलं सर्षपायति यस्य मूर्ध्नि

तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ४८

श्रीशुक उवाच

संस्तुतो भगवानेवमनन्तस्तमभाषत

विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ४९

श्रीभगवानुवाच

यन्नारदाङ्गिरोभ्यां ते व्याहृतं मेऽनुशासनम्

संसिद्धोऽसि तया राजन्विद्यया दर्शनाच्च मे ५०

अहं वै सर्वभूतानि भूतात्मा भूतभावनः

शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ५१

लोके विततमात्मानं लोकं चात्मनि सन्ततम्

उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ५२

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि

आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ५३

एवं जागरणादीनि जीवस्थानानि चात्मनः

मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ५४

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा

सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ५५

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः

अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ५६

यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः

ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ५७

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम्

आत्मानं यो न बुद्ध्येत न क्वचित्क्षेममाप्नुयात् ५८

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम्

अभयं चाप्यनीहायां सङ्कल्पाद्विरमेत्कविः ५९

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः

ततोऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ६०

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम्

आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ६१

दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा

ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ६२

एतावानेव मनुजैर्योगनैपुण्यबुद्धिभिः

स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ६३

त्वमेतच्छ्रद्धया राजन्नप्रमत्तो वचो मम

ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ६४

श्रीशुक उवाच

आश्वास्य भगवानित्थं चित्रकेतुं जगद्गुरुः

पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ६५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः