अथ चतुर्विंशोऽध्यायः

श्रीराजोवाच

भगवन्छ्रोतुमिच्छामि हरेरद्भुतकर्मणः

अवतारकथामाद्यां मायामत्स्यविडम्बनम् १

यदर्थमदधाद्रू पं मात्स्यं लोकजुगुप्सितम्

तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः २

एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि

उत्तमश्लोकचरितं सर्वलोकसुखावहम् ३

श्रीसूत उवाच

इत्युक्तो विष्णुरातेन भगवान्बादरायणिः

उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतम् ४

श्रीशुक उवाच

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः

रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ५

उच्चावचेषु भूतेषु चरन्वायुरिवेश्वरः

नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ६

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः

समुद्रो पप्लुतास्तत्र लोका भूरादयो नृप ७

कालेनागतनिद्र स्य धातुः शिशयिषोर्बली

मुखतो निःसृतान्वेदान्हयग्रीवोऽन्तिकेऽहरत् ८

ज्ञात्वा तद्दानवेन्द्र स्य हयग्रीवस्य चेष्टितम्

दधार शफरीरूपं भगवान्हरिरीश्वरः ९

तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान्

नारायणपरोऽतपत्तपः स सलिलाशनः १०

योऽसावस्मिन्महाकल्पे तनयः स विवस्वतः

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ११

एकदा कृतमालायां कुर्वतो जलतर्पणम्

तस्याञ्जल्युदके काचिच्छफर्येकाभ्यपद्यत १२

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत

उत्ससर्ज नदीतोये शफरीं द्र विडेश्वरः १३

तमाह सातिकरुणं महाकारुणिकं नृपम्

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल

कथं विसृजसे राजन्भीतामस्मिन्सरिज्जले १४

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम्

अजानन्रक्षणार्थाय शफर्याः स मनो दधे १५

तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् १६

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ

अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् १७

नाहं कमण्डलावस्मिन्कृच्छ्रं वस्तुमिहोत्सहे

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् १८

स एनां तत आदाय न्यधादौदञ्चनोदके

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत १९

न म एतदलं राजन्सुखं वस्तुमुदञ्चनम्

पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता २०

तत आदाय सा राज्ञा क्षिप्ता राजन्सरोवरे

तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत २१

नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः

निधेहि रक्षायोगेन ह्रदे मामविदासिनि २२

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् २३

क्षिप्यमाणस्तमाहेदमिह मां मकरादयः

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि २४

एवं विमोहितस्तेन वदता वल्गुभारतीम्

तमाह को भवानस्मान्मत्स्यरूपेण मोहयन् २५

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा

यो भवान्योजनशतमह्नाभिव्यानशे सरः २६

नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् २७

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो २८

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् २९

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः

यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ३०

श्रीशुक उवाच

इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये

विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम् ३१

श्रीभगवानुवाच

सप्तमे ह्यद्यतनादूर्ध्वमहन्येतदरिन्दम

निमङ्क्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ३२

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा

उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ३३

त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ३४

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः

एकार्णवे निरालोके ऋषीणामेव वर्चसा ३५

दोधूयमानां तां नावं समीरेण बलीयसा

उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ३६

अहं त्वामृषिभिः सार्धं सहनावमुदन्वति

विकर्षन्विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ३७

मदीयं महिमानं च परं ब्रह्मेति शब्दितम्

वेत्स्यस्यनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ३८

इत्थमादिश्य राजानं हरिरन्तरधीयत

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ३९

आस्तीर्य दर्भान्प्राक्कूलान्राजर्षिः प्रागुदङ्मुखः

निषसाद हरेः पादौ चिन्तयन्मत्स्यरूपिणः ४०

ततः समुद्र उद्वेलः सर्वतः प्लावयन्महीम्

वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ४१

ध्यायन्भगवदादेशं ददृशे नावमागताम्

तामारुरोह विप्रेन्द्रै रादायौषधिवीरुधः ४२

तमूचुर्मुनयः प्रीता राजन्ध्यायस्व केशवम्

स वै नः सङ्कटादस्मादविता शं विधास्यति ४३

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे

एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ४४

निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा

वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ४५

श्रीराजोवाच

अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमातुराः

यदृच्छयोपसृता यमाप्नुयुर्विमुक्तिदो नः परमो गुरुर्भवान् ६४

जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम्

यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ४७

यत्सेवयाग्नेरिव रुद्र रोदनं पुमान्विजह्यान्मलमात्मनस्तमः

भजेत वर्णं निजमेष सोऽव्ययो भूयात्स ईशः परमो गुरोर्गुरुः ४८

न यत्प्रसादायुतभागलेशमन्ये च देवा गुरवो जनाः स्वयम्

कर्तुं समेताः प्रभवन्ति पुंसस्तमीश्वरं त्वां शरणं प्रपद्ये ४९

अचक्षुरन्धस्य यथाग्रणीः कृतस्तथा जनस्याविदुषोऽबुधो गुरुः

त्वमर्कदृक्सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ५०

जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः

त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ५१

त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः

तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदि बद्धकामः ५२

तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय

छिन्ध्यर्थदीपैर्भगवन्वचोभिर्ग्रन्थीन्हृदय्यान्विवृणु स्वमोकः ५३

श्रीशुक उवाच

इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः

मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ५४

पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम्

सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ५५

अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम्

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ५६

अतीतप्रलयापाय उत्थिताय स वेधसे

हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ५७

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः

विष्णोः प्रसादात्कल्पेऽस्मिन्नासीद्वैवस्वतो मनुः ५८

सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ५९

अवतारं हरेर्योऽयं कीर्तयेदन्वहं नरः

सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ६०

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः

श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा

दितिजमकथयद्यो ब्रह्म सत्यव्रतानां

तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ६१

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानुवर्णनं नाम चतुर्विंशोऽध्यायः

इत्यष्टमस्कन्धः समाप्तः

हरिः ॐ तत्सत्

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः