अथ पञ्चदशोऽध्यायः

श्रीबादरायणिरुवाच

ऐलस्य चोर्वशीगर्भात्षडासन्नात्मजा नृप

आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः १

श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः

रयस्य सुत एकश्च जयस्य तनयोऽमितः २

भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः

तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत्

जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजकः ३

ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः

कुशनाभश्च चत्वारो गाधिरासीत्कुशाम्बुजः ४

तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विजः

वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ५

एकतः श्यामकर्णानां हयानां चन्द्र वर्चसाम्

सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ६

इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम्

आनीय दत्त्वा तानश्वानुपयेमे वराननाम् ७

स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया

श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः ८

तावत्सत्यवती मात्रा स्वचरुं याचिता सती

श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत्स्वयम् ९

तद्विदित्वा मुनिः प्राह पत्नीं कष्टमकारषीः

घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः १०

प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः

अथ तर्हि भवेत्पौत्रोजमदग्निस्ततोऽभवत् ११

सा चाभूत्सुमहत्पुण्या कौशिकी लोकपावनी

रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् १२

तस्यां वै भार्गवऋषेः सुता वसुमदादयः

यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः १३

यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम्

त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् १४

दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत्

रजस्तमोवृतमहन्फल्गुन्यपि कृतेऽक्त्!असि १५

श्रीराजोवाच

किं तदंहो भगवतो राजन्यैरजितात्मभिः

कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः १६

श्रीबादरायणिरुवाच

हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः

दत्तं नारायणांशांशमाराध्य परिकर्मभिः १७

बाहून्दशशतं लेभे दुर्धर्षत्वमरातिषु

अव्याहतेन्द्रि यौजः श्री तेजोवीर्ययशोबलम् १८

योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः

चचाराव्याहतगतिर्लोकेषु पवनो यथा १९

स्त्रीरत्नैरावृतः क्रीडन्रेवाम्भसि मदोत्कटः

वैजयन्तीं स्रजं बिभ्रद्रुरोध सरितं भुजैः २०

विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः

नामृष्यत्तस्य तद्वीर्यं वीरमानी दशाननः २१

गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः

माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा २२

स एकदा तु मृगयां विचरन्विजने वने

यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् २३

तस्मै स नरदेवाय मुनिरर्हणमाहरत्

ससैन्यामात्यवाहाय हविष्मत्या तपोधनः २४

स वै रत्नं तु तद्दृष्ट्वा आत्मैश्वर्यातिशायनम्

तन्नाद्रि यताग्निहोत्र्! यां साभिलाषः सहैहयः २५

हविर्धानीमृषेर्दर्पान्नरान्हर्तुमचोदयत्

ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् २६

अथ राजनि निर्याते राम आश्रम आगतः

श्रुत्वा तत्तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः २७

घोरमादाय परशुं सतूणं वर्म कार्मुकम्

अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् २८

तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम्

ऐणेयचर्माम्बरमर्कधामभिर्युतं जटाभिर्ददृशे पुरीं विशन् २९

अचोदयद्धस्तिरथाश्वपत्तिभिर्गदासिबाणर्ष्टिशतघ्निशक्तिभिः

अक्षौहिणीः सप्तदशातिभीषणास्ता राम एको भगवानसूदयत् ३०

यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः

ततश्ततस्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ३१

दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः

विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद्रुषा ३२

अथार्जुनः पञ्चशतेषु बाहुभिर्धनुःषु बाणान्युगपत्स सन्दधे

रामाय रामोऽस्त्रभृतां समग्रणीस्तान्येकधन्वेषुभिराच्छिनत्समम् ३३

पुनः स्वहस्तैरचलान्मृधेऽङ्घ्रिपानुत्क्षिप्य वेगादभिधावतो युधि

भुजान्कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव ३४

कृत्तबाहोः शिरस्तस्य गिरेः शृङ्गमिवाहरत्

हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ३५

अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा

समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ३६

स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च

वर्णयामास तच्छ्रुत्वाजमदग्निरभाषत ३७

राम राम महाबाहो भवान्पापमकारषीत्

अवधीन्नरदेवं यत्सर्वदेवमयं वृथा ३८

वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः

यया लोकगुरुर्देवः पारमेष्ठ्यमगात्पदम् ३९

क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा

क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः ४०

राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः

तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ४१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः