अथ षष्ठोऽध्यायः

सूत उवाच

एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च

भूयः पप्रच्छ तं ब्रह्मन्व्यासः सत्यवतीसुतः १

व्यास उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव

वर्तमानो वयस्याद्ये ततः किमकरोद्भवान् २

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः

कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम् ३

प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम

न ह्येष व्यवधात्काल एष सर्वनिराकृतिः ४

नारद उवाच

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम

वर्तमानो वयस्याद्ये तत एतदकारषम् ५

एकात्मजा मे जननी योषिन्मूढा च किङ्करी

मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ६

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती

ईशस्य हि वशे लोको योषा दारुमयी यथा ७

अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया

दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ८

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि

सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः ९

तदा तदहमीशस्य भक्तानां शमभीप्सतः

अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम् १०

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान्

खेटखर्वटवाटीश्च वनान्युपवनानि च ११

चित्रधातुविचित्राद्री निभभग्नभुजद्रुमान्

जलाशयाञ्छिवजलान्नलिनीः सुरसेविताः १२

चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः

नलवेणुशरस्तन्ब कुशकीचकगह्वरम् १३

एक एवातियातोऽहमद्रा क्षं विपिनं महत्

घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् १४

परिश्रान्तेन्द्रि यात्माहं तृट्परीतो बुभुक्षितः

स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः १५

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः

आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् १६

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा

औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः १७

प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः

आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने १८

रूपं भगवतो यत्तन्मनःकान्तं शुचापहम्

अपश्यन्सहसोत्तस्थे वैक्लव्याद्दुर्मना इव १९

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि

वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः २०

एवं यतन्तं विजने मामाहागोचरो गिराम्

गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव २१

हन्तास्मिञ्जन्मनि भवान्मा मां द्र ष्टुमिहार्हति

अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् २२

सकृद्यद्दर्शितं रूपमेतत्कामाय तेऽनघ

मत्कामः शनकैः साधु सर्वान्मुञ्चति हृच्छयान् २३

सत्सेवयादीर्घयापि जाता मयि दृढा मतिः

हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि २४

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित्

प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् २५

एतावदुक्त्वोपरराम तन्महद्भूतं नभोलिङ्गमलिङ्गमीश्वरम्

अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधेऽनुकम्पितः २६

नामान्यनन्तस्य हतत्रपः पठन्गुह्यानि भद्रा णि कृआ!नि च स्मरन्

गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन्विमदो विमत्सरः २७

एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः

कालः प्रादुरभूत्काले तडित्सौदामनी यथा २८

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम्

आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः २९

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वतः

शिशयिषोरनुप्राणं विविशेऽन्तरहं विभोः ३०

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः

मरीचिमिश्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे ३१

अन्तर्बहिश्च लोकांस्त्रीन्पर्येम्यस्कन्दितव्रतः

अनुग्रहान्महाविष्णोरविघातगतिः क्वचित् ३२

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम्

मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ३३

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः

आहूत इव मे शीघ्रं दर्शनं याति चेतसि ३४

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः

भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ३५

यमादिभिर्योगपथैः कामलोभहतो मुहुः

मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ३६

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ

जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ३७

सूत उवाच

एवं सम्भाष्य भगवान्नारदो वासवीसुतम्

आमन्त्र्! य वीणां रणयन्ययौ यादृच्छिको मुनिः ३८

अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वनः

गायन्माद्यन्निदं तन्त्र्! या रमयत्यातुरं जगत् ३९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः