अथ चतुर्विंशोऽध्यायः

मैत्रेय उवाच

विजिताश्वोऽधिराजासीत्पृथुपुत्रः पृथुश्रवाः

यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः १

हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम्

प्रतीचीं वृकसंज्ञाय तुर्यां द्र विणसे विभुः २

अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञितः

अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ३

पावकः पवमानश्च शुचिरित्यग्नयः पुरा

वसिष्ठशापादुत्पन्नाः पुनर्योगगतिं गताः ४

अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत

य इन्द्र मश्वहर्तारं विद्वानपि न जघ्निवान् ५

राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम्

मन्यमानो दीर्घसत्त्र व्याजेन विससर्ज ह ६

तत्रापि हंसं पुरुषं परमात्मानमात्मदृक्

यजंस्तल्लोकतामाप कुशलेन समाधिना ७

हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान्

बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ८

बर्हिषत्सुमहाभागो हाविर्धानिः प्रजापतिः

क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ९

यस्येदं देवयजनमनुयज्ञं वितन्वतः

प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् १०

सामुद्रीं! देवदेवोक्तामुपयेमे शतद्रुतिम्

यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम्

परिक्रमन्तीमुद्वाहे चकमेऽग्निः शुकीमिव ११

विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः

विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः १२

प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन्

तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः १३

पित्रादिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन्

दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् १४

यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता

तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः १५

विदुर उवाच

प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गमः

यदुताह हरः प्रीतस्तन्नो ब्रह्मन्वदार्थवत् १६

सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम्

दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् १७

आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे

शक्त्या युक्तो विचरति घोरया भगवान्भवः १८

मैत्रेय उवाच

प्रचेतसः पितुर्वाक्यं शिरसादाय साधवः

दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतसः १९

ससमुद्र मुप विस्तीर्णमपश्यन्सुमहत्सरः

महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् २०

नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम्

हंससारसचक्राह्व कारण्डवनिकूजितम् २१

मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम्

पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् २२

तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम्

विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु २३

तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम्

उपगीयमानममर प्रवरं विबुधानुगैः २४

तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम्

प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः २५

स तान्प्रपन्नार्तिहरो भगवान्धर्मवत्सलः

धर्मज्ञान्शीलसम्पन्नान्प्रीतः प्रीतानुवाच ह २६

श्रीरुद्र उवाच

यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम्

अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् २७

यः परं रंहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात्

भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे २८

स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति ततः परं हि माम्

अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये २९

अथ भागवता यूयं प्रियाः स्थ भगवान्यथा

न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ३०

इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम्

निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ३१

मैत्रेय उवाच

इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः

बद्धाञ्जलीन्राजपुत्रान्नारायणपरो वचः ३२

श्रीरुद्र उवाच

जितं त आत्मविद्वर्य स्वस्तये स्वस्तिरस्तु मे

भवताराधसा राद्धं सर्वस्मा आत्मने नमः ३३

नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रि यात्मने

वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ३४

सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च

नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ३५

नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रि यात्मने

नमः परमहंसाय पूर्णाय निभृतात्मने ३६

स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः

नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ३७

नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे

तृप्तिदाय च जीवानां नमः सर्वरसात्मने ३८

सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे

नमस्त्रैलोक्यपालाय सह ओजोबलाय च ३९

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने

नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ४०

प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे

नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ४१

नमस्त आशिषामीश मनवे कारणात्मने

नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे

पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ४२

शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने

चेतआकूतिरूपाय नमो वाचो विभूतये ४३

दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम्

रूपं प्रियतमं स्वानां सर्वेन्द्रि यगुणाञ्जनम् ४४

स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम्

चार्वायतचतुर्बाहु सुजातरुचिराननम् ४५

पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम्

सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ४६

प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम्

लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ४७

स्फुरत्किरीटवलय हारनूपुरमेखलम्

शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ४८

सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम्

श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ४९

पूररेचकसंविग्न वलिवल्गुदलोदरम्

प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ५०

श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम्

समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ५१

पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता

प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ५२

एतद्रू पमनुध्येयमात्मशुद्धिमभीप्सताम्

यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ५३

भवान्भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम्

स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ५४

तं दुराराध्यमाराध्य सतामपि दुरापया

एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहिः ५५

यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते

विश्वं विध्वंसयन्वीर्य शौर्यविस्फूर्जितभ्रुवा ५६

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम्

भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ५७

अथानघाङ्घ्रेस्तव कीर्तितीर्थयोरन्तर्बहिःस्नानविधूतपाप्मनाम्

भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ५८

न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत्

यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ५९

यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत्

तत्त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ६०

यो माययेदं पुरुरूपयासृजद्बिभर्ति भूयः क्षपयत्यविक्रियः

यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि ६१

क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये

भूतेन्द्रि यान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ६२

त्वमेक आद्यः पुरुषः सुप्तशक्तिस्तया रजःसत्त्वतमो विभिद्यते

महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ६३

सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन

अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते हृषीकैर्मधु सारघं यः ६४

स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः

भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः ६५

प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम्

त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ६६

कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः

विशङ्कयास्मद्गुरुरर्चति स्म यद्विनोपपत्तिं मनवश्चतुर्दश ६७

अथ त्वमसि नो ब्रह्मन्परमात्मन्विपश्चिताम्

विश्वं रुद्र भयध्वस्तमकुतश्चिद्भया गतिः ६८

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः

स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ६९

तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम्

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ७०

योगादेशमुपासाद्य धारयन्तो मुनिव्रताः

समाहितधियः सर्व एतदभ्यसतादृताः ७१

इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः

भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ७२

ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः

अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ७३

अथेदं नित्यदा युक्तो जपन्नवहितः पुमान्

अचिराच्छ्रेय आप्नोति वासुदेवपरायणः ७४

श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम्

सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ७५

य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम्

अधीयानो दुराराध्यं हरिमाराधयत्यसौ ७६

विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम्

मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ७७

इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः

शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ७८

गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम्

जपन्त एकाग्रधियस्तपो महत्चरध्वमन्ते तत आप्स्यथेप्सितम् ७९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्र गीतं नाम चतुर्विंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः