अथ नवमोऽध्यायः

श्रीब्राह्मण उवाच

परिग्रहो हि दुःखाय यद्यत्प्रियतमं नृणाम्

अनन्तं सुखमाप्नोति तद्विद्वान्यस्त्वकिञ्चनः १

सामिषं कुररं जघ्नुर्बलिनोऽन्ये निरामिषाः

तदामिषं परित्यज्य स सुखं समविन्दत २

न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम्

आत्मक्रीड आत्मरतिर्विचरामीह बालवत् ३

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ

यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ४

क्वचित्कुमारी त्वात्मानं वृणानान्गृहमागतान्

स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ५

तेषामभ्यवहारार्थं शालीन्रहसि पार्थिव

अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ६

सा तज्जुगुप्सितं मत्वा महती वॄडिता ततः

बभञ्जैकैकशः शङ्खान्द्वौ द्वौ पाण्योरशेषयत् ७

उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्वशङ्खयोः

तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ८

अन्वशिक्षमिमं तस्या उपदेशमरिन्दम

लोकाननुचरन्नेतान्लोकतत्त्वविवित्सया ९

वासे बहूनां कलहो भवेद्वार्ता द्वयोरपि

एक एव वसेत्तस्मात्कुमार्या इव कङ्कणः १०

मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनः

वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रि तः ११

यस्मिन्मनो लब्धपदं यदेतच्छनैः शनैर्मुञ्चति कर्मरेणून्

सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् १२

तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद्बहिरन्तरं वा

यथेषुकारो नृपतिं व्रजन्तमिषौ गतात्मा न ददर्श पार्श्वे १३

एकचार्यनिकेतः स्यादप्रमत्तो गुहाशयः

अलक्ष्यमाण आचारैर्मुनिरेकोऽल्पभाषणः १४

गृहारम्भो हि दुःखाय विफलश्चाध्रुवात्मनः

सर्पः परकृतं वेश्म प्रविश्य सुखमेधते १५

एको नारायणो देवः पूर्वसृष्टं स्वमायया

संहृत्य कालकलया कल्पान्त इदमीश्वरः

एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः १६

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु

सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः १७

परावराणां परम आस्ते कैवल्यसंज्ञितः

केवलानुभवानन्द सन्दोहो निरुपाधिकः १८

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम्

सङ्क्षोभयन्सृजत्यादौ तया सूत्रमरिन्दम १९

तामाहुस्त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम्

यस्मिन्प्रोतमिदं विश्वं येन संसरते पुमान् २०

यथोर्णनाभिर्हृदयादूर्णां सन्तत्य वक्त्रतः

तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः २१

यत्र यत्र मनो देही धारयेत्सकलं धिया

स्नेहाद्द्वेषाद्भयाद्वापि याति तत्तत्स्वरूपताम् २२

कीटः पेशस्कृतं ध्यायन्कुड्यां तेन प्रवेशितः

याति तत्सात्मतां राजन्पूर्वरूपमसन्त्यजन् २३

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः

स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो २४

देहो गुरुर्मम विरक्तिविवेकहेतुर्

बिभ्रत्स्म सत्त्वनिधनं सततार्त्युदर्कम्

तत्त्वान्यनेन विमृशामि यथा तथापि

पारक्यमित्यवसितो विचराम्यसङ्गः २५

जायात्मजार्थपशुभृत्यगृहाप्तवर्गान्

पुष्नाति यत्प्रियचिकीर्षया वितन्वन्

स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः

सृष्ट्वास्य बीजमवसीदति वृक्षधर्मः २६

जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा

शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्

घ्राणोऽन्यतश्चपलदृक्क्व च कर्मशक्तिर्

बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति २७

सृष्ट्वा पुराणि विविधान्यजयात्मशक्त्या

वृक्षान्सरीसृपपशून्खगदन्दशूकान्

तैस्तैरतुष्टहृदयः पुरुषं विधाय

ब्रह्मावलोकधिषणं मुदमाप देवः २८

लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते

मानुष्यमर्थदमनित्यमपीह धीरः

तूर्णं यतेत न पतेदनुमृत्यु यावन्

निःश्रेयसाय विषयः खलु सर्वतः स्यात् २९

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि

विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतः ३०

न ह्येकस्माद्गुरोर्ज्ञानं सुस्थिरं स्यात्सुपुष्कलम्

ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ३१

श्रीभगवानुवाच

इत्युक्त्वा स यदुं विप्रस्तमामन्त्र्! य गभीरधीः

वन्दितः स्वर्चितो राज्ञा ययौ प्रीतो यथागतम् ३२

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः

सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ३३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे नवमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः