अथ नवमोऽध्यायः

सूत उवाच

संस्तुतो भगवानित्थं मार्कण्डेयेन धीमता

नारायणो नरसखः प्रीत आह भृगूद्वहम् १

श्रीभगवानुवाच

भो भो ब्रह्मर्षिवर्योऽसि सिद्ध आत्मसमाधिना

मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः २

वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया

वरं प्रतीच्छ भद्रं ते वरदोऽस्मि त्वदीप्सितम् ३

श्रीऋषिरुवाच

जितं ते देवदेवेश प्रपन्नार्तिहराच्युत

वरेणैतावतालं नो यद्भवान्समदृश्यत ४

गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम्

मनसा योगपक्वेन स भवान्मेऽक्षिगोचरः ५

अथाप्यम्बुजपत्राक्ष पुण्यश्लोकशिखामणे

द्र क्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ६

सूत उवाच

इतीडितोऽर्चितः काममृषिणा भगवान्मुने

तथेति स स्मयन्प्रागाद्बदर्याश्रममीश्वरः ७

तमेव चिन्तयन्नर्थमृषिः स्वाश्रम एव सः

वसन्नग्न्यर्कसोमाम्बु भूवायुवियदात्मसु ८

ध्यायन्सर्वत्र च हरिं भावद्र व्यैरपूजयत्

क्वचित्पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ९

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रा तटे मुनेः

उपासीनस्य सन्ध्यायां ब्रह्मन्वायुरभून्महान् १०

तं चण्डशब्दं समुदीरयन्तं बलाहका अन्वभवन्करालाः

अक्षस्थविष्ठा मुमुचुस्तडिद्भिः स्वनन्त उच्चैरभि वर्षधाराः ११

ततो व्यदृश्यन्त चतुः समुद्राः! समन्ततः क्ष्मातलमाग्रसन्तः

समीरवेगोर्मिभिरुग्रनक्र महाभयावर्तगभीरघोषाः १२

अन्तर्बहिश्चाद्भिरतिद्युभिः खरैः

शतह्रदाभिरुपतापितं जगत्

चतुर्विधं वीक्ष्य सहात्मना मुनिर्

जलाप्लुतां क्ष्मां विमनाः समत्रसत् १३

तस्यैवमुद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार्महार्णवः

आपूर्यमाणो वरषद्भिरम्बुदैः क्ष्मामप्यधाद्द्वीपवर्षाद्रि भिः समम् १४

सक्ष्मान्तरिक्षं सदिवं सभागणं

त्रैलोक्यमासीत्सह दिग्भिराप्लुतम्

स एक एवोर्वरितो महामुनिर्

बभ्राम विक्षिप्य जटा जडान्धवत् १५

क्षुत्तृट्परीतो मकरैस्तिमिङ्गिलैर्

उपद्रुतो वीचिनभस्वताहतः

तमस्यपारे पतितो भ्रमन्दिशो

न वेद खं गां च परिश्रमेषितः १६

क्रचिन्मग्नो महावर्ते तरलैस्ताडितः क्वचित्

यादोभिर्भक्ष्यते क्वापि स्वयमन्योन्यघातिभिः १७

क्वचिच्छोकं क्वचिन्मोहं क्वचिद्दुःखं सुखं भयम्

क्वचिन्मृत्युमवाप्नोति व्याध्यादिभिरुतार्दितः १८

अयुतायतवर्षाणां सहस्राणि शतानि च

व्यतीयुर्भ्रमतस्तस्मिन्विष्णुमायावृतात्मनः १९

स कदाचिद्भ्रमंस्तस्मिन्पृथिव्याः ककुदि द्विजः

न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् २०

प्रागुत्तरस्यां शाखायां तस्यापि ददृशे शिशुम्

शयानं पर्णपुटके ग्रसन्तं प्रभया तमः २१

महामरकतश्यामं श्रीमद्वदनपङ्कजम्

कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् २२

श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम्

विद्रुमाधरभासेषच् छोणायितसुधास्मितम् २३

पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम्

श्वासैजद्वलिसंविग्न निम्ननाभिदलोदरम् २४

चार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम्

मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः २५

तद्दर्शनाद्वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पौल्मविलोचनाम्बुजः

प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस्तं प्रससार बालकम् २६

तावच्छिशोर्वै श्वसितेन भार्गवः

सोऽन्तः शरीरं मशको यथाविशत्

तत्राप्यदो न्यस्तमचष्ट कृत्स्नशो

यथा पुरामुह्यदतीव विस्मितः २७

खं रोदसी भागणानद्रि सागरान्द्वीपान्सवर्षान्ककुभः सुरासुरान्

वनानि देशान्सरितः पुराकरान्खेटान्व्रजानाश्रमवर्णवृत्तयः २८

महान्ति भूतान्यथ भौतिकान्यसौ कालं च नानायुगकल्पकल्पनम्

यत्किञ्चिदन्यद्व्यवहारकारणं ददर्श विश्वं सदिवावभासितम् २९

हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत

विश्वं विपश्यञ्छ्वसिताच्छिशोर्वै बहिर्निरस्तो न्यपतल्लयाब्धौ ३०

तस्मिन्पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम्

तोकं च तत्प्रेमसुधास्मितेन निरीक्षितोऽपाङ्गनिरीक्षणेन ३१

अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि

अभ्ययादतिसङ्क्लिष्टः परिष्वक्तुमधोक्षजम् ३२

तावत्स भगवान्साक्षाद्योगाधीशो गुहाशयः

अन्तर्दध ऋषेः सद्यो यथेहानीशनिर्मिता ३३

तमन्वथ वटो ब्रह्मन्सलिलं लोकसम्प्लवः

तिरोधायि क्षणादस्य स्वाश्रमे पूर्ववत्स्थितः ३४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः