अथ चतुर्थोऽध्यायः

श्रीराजोवाच

यानि यानीह कर्माणि यैर्यैः स्वच्छन्दजन्मभिः

चक्रे करोति कर्ता वा हरिस्तानि ब्रुवन्तु नः १

श्रीद्रुमिल उवाच

यो वा अनन्तस्य गुनाननन्ताननुक्रमिष्यन्स तु बालबुद्धिः

रजांसि भूमेर्गणयेत्कथञ्चित्कालेन नैवाखिलशक्तिधाम्नः २

भूतैर्यदा पञ्चभिरात्मसृष्टैः

पुरं विराजं विरचय्य तस्मिन्

स्वांशेन विष्टः पुरुषाभिधानम्

अवाप नारायण आदिदेवः ३

यत्काय एष भुवनत्रयसन्निवेशो

यस्येन्द्रि यैस्तनुभृतामुभयेन्द्रि याणि

ज्ञानं स्वतः श्वसनतो बलमोज ईहा

सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ४

आदावभूच्छतधृती रजसास्य सर्गे

विष्णुः स्थितौ क्रतुपतिर्द्विजधर्मसेतुः

रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य

इत्युद्भवस्थितिलयाः सततं प्रजासु ५

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां

नारायणो नर ऋषिप्रवरः प्रशान्तः

नैष्कर्म्यलक्षणमुवाच चचार कर्म

योऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ६

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति

कामं न्ययुङ्क्त सगणं स बदर्युपाख्यम्

गत्वाप्सरोगणवसन्तसुमन्दवातैः

स्त्रीप्रेक्षणेषुभिरविध्यदतन्महिज्ञः ७

विज्ञाय शक्रकृतमक्रममादिदेवः

प्राह प्रहस्य गतविस्मय एजमानान्

मा भैर्विभो मदन मारुत देववध्वो

गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ८

इत्थं ब्रुवत्यभयदे नरदेव देवाः

सव्रीडनम्रशिरसः सघृणं तमूचुः

नैतद्विभो त्वयि परेऽविकृते विचित्रं

स्वारामधीरनिकरानतपादपद्मे ९

त्वां सेवतां सुरकृता बहवोऽन्तरायाः

स्वौको विलङ्घ्य परमं व्रजतां पदं ते

नान्यस्य बर्हिषि बलीन्ददतः स्वभागान्

धत्ते पदं त्वमविता यदि विघ्नमूर्ध्नि १०

क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान्

अस्मानपारजलधीनतितीर्य केचित्

क्रोधस्य यान्ति विफलस्य वशं पदे गोर्

मज्जन्ति दुश्चरतपश्च वृथोत्सृजन्ति ११

इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः

दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीर्विभुः १२

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः

गन्धेन मुमुहुस्तासां रूपौदार्यहतश्रियः १३

तानाह देवदेवेशः प्रणतान्प्रहसन्निव

आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् १४

ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः

उर्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः १५

इन्द्रा यानम्य सदसि शृण्वतां त्रिदिवौकसाम्

ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः १६

हंसस्वरूप्यवददच्युत आत्मयोगं

दत्तः कुमार ऋषभो भगवान्पिता नः

विष्णुः शिवाय जगतां कलयावतिर्णस्

तेनाहृता मधुभिदा श्रुतयो हयास्ये १७

गुप्तोऽप्यये मनुरिलौषधयश्च मात्स्ये

क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम्

कौर्मे धृतोऽद्रि रमृतोन्मथने स्वपृष्ठे

ग्राहात्प्रपन्नमिभराजममुञ्चदार्तम् १८

संस्तुन्वतो निपतितान्श्रमणानृषींश्च

शक्रं च वृत्रवधतस्तमसि प्रविष्टम्

देवस्त्रियोऽसुरगृहे पिहिता अनाथा

जघ्नेऽसुरेन्द्र मभयाय सतां नृसिंहे १९

देवासुरे युधि च दैत्यपतीन्सुरार्थे

हत्वान्तरेषु भुवनान्यदधात्कलाभिः

भूत्वाथ वामन इमामहरद्बलेः क्ष्मां

याच्ञाच्छलेन समदाददितेः सुतेभ्यः २०

निःक्षत्रियामकृत गां च त्रिःसप्तकृत्वो

रामस्तु हैहयकुलाप्ययभार्गवाग्निः

सोऽब्धिं बबन्ध दशवक्त्रमहन्सलङ्कं

सीतापतिर्जयति लोकमलघ्नकीऋतिः २१

भूमेर्भरावतरणाय यदुष्वजन्मा

जातः करिष्यति सुरैरपि दुष्कराणि

वादैर्विमोहयति यज्ञकृतोऽतदर्हान्

शूद्रा न्कलौ क्षितिभुजो न्यहनिष्यदन्ते २२

एवंविधानि जन्मानि कर्माणि च जगत्पतेः

भूरीणि भूरियशसो वर्णितानि महाभुज २३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्थोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः