अथ द्वादशोऽध्यायः

श्रीऋषिरुवाच

एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः

शूलं प्रगृह्याभ्यपतत्सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु १

ततो युगान्ताग्निकठोरजिह्वमाविध्य शूलं तरसासुरेन्द्रः!

क्षिप्त्वा महेन्द्रा य विनद्य वीरो हतोऽसि पापेति रुषा जगाद २

ख आपतत्तद्विचलद्ग्रहोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः

वज्रेण वज्री शतपर्वणाच्छिनद्भुजं च तस्योरगराजभोगम् ३

छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम्

हनौ तताडेन्द्र मथामरेभं वज्रं च हस्तान्न्यपतन्मघोनः ४

वृत्रस्य कर्मातिमहाद्भुतं तत्सुरासुराश्चारणसिद्धसङ्घाः

अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ५

इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः

तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ६

युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम्

विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ७

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे

द्विजा इव शिचा बद्धाः स काल इह कारणम् ८

ओजः सहो बलं प्राणममृतं मृत्युमेव च

तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ९

यथा दारुमयी नारी यथा पत्रमयो मृगः

एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः १०

पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रि याशयाः

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात् ११

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम्

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् १२

आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः १३

तस्मादकीर्तियशसोर्जयापजययोरपि

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा १४

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः

तत्र साक्षिणमात्मानं यो वेद स न बध्यते १५

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे

घटमानं यथाशक्ति तव प्राणजिहीर्षया १६

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः १७

श्रीशुक उवाच

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत्

गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः १८

इन्द्र उवाच

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी

भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् १९

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम्

यद्विहायासुरं भावं महापुरुषतां गतः २०

खल्विदं महदाश्चर्यं यद्र जःप्रकृतेस्तव

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः २१

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः! खातकोदकैः २२

श्रीशुक उवाच

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप

युयुधाते महावीर्याविन्द्र वृत्रौ युधाम्पती २३

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः

इन्द्रा य प्राहिणोद्घोरं वामहस्तेन मारिष २४

स तु वृत्रस्य परिघं करं च करभोपमम्

चिच्छेद युगपद्देवो वज्रेण शतपर्वणा २६

दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः

छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः २६

महाप्राणो महावीर्यो महासर्प इव द्विपम्

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् २७

नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया

दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् २८

अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन्

गिरिराट्पादचारीव पद्भ्यां निर्जरयन्महीम् २९

जग्रास स समासाद्य वज्रिणं सहवाहनम्

वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः

हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ३०

निगीर्णोऽप्यसुरेन्द्रे ण न ममारोदरं गतः

महापुरुषसन्नद्धो योगमायाबलेन च ३१

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः

उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ३२

वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन्समन्तात्परिवर्तमानः

न्यपातयत्तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ३३

तदा च खे दुन्दुभयो विनेदुर्गन्धर्वसिद्धाः समहर्षिसङ्घाः

वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ३४

वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम

पश्यतां सर्वदेवानामलोकं समपद्यत ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः