अथ षोडशोऽध्यायः

श्रीशुक उवाच

एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा

हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् १

एकदा कश्यपस्तस्या आश्रमं भगवानगात्

निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् २

स पत्नीं दीनवदनां कृतासनपरिग्रहः

सभाजितो यथान्यायमिदमाह कुरूद्वह ३

अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनागतम्

न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ४

अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि

धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ५

अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया

गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ६

गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि

यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ७

अप्यग्नयस्तु वेलायां न हुता हविषा सति

त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ८

यत्पूजया कामदुघान्याति लोकान्गृहान्वितः

ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ९

अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि

लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् १०

श्रीअदितिरुवाच

भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च

त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ११

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः

सर्वं भगवतो ब्रह्मन्ननुध्यानान्न रिष्यति १२

को नु मे भगवन्कामो न सम्पद्येत मानसः

यस्या भवान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते १३

तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः

समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः १४

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत

हृतश्रियो हृतस्थानान्सपत्नैः पाहि नः प्रभो १५

परैर्विवासिता साहं मग्ना व्यसनसागरे

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम १६

यथा तानि पुनः साधो प्रपद्येरन्ममात्मजाः

तथा विधेहि कल्याणं धिया कल्याणकृत्तम १७

श्रीशुक उवाच

एवमभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव

अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् १८

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः

कस्य के पतिपुत्राद्या मोह एव हि कारणम् १९

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम्

सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् २०

स विधास्यति ते कामान्हरिर्दीनानुकम्पनः

अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम २१

श्रीअदितिरुवाच

केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम्

यथा मे सत्यसङ्कल्पो विदध्यात्स मनोरथम् २२

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम्

आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः २३

श्रीकश्यप उआच

एतन्मे भगवान्पृष्टः प्रजाकामस्य पद्मजः

यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् २४

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्

अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः २५

सिनीवाल्यां मृदालिप्य स्नायात्क्रोडविदीर्णया

यदि लभ्येत वै स्रोतस्येतं मन्त्रमुदीरयेत् २६

त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता

उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय २७

निर्वर्तितात्मनियमो देवमर्चेत्समाहितः

अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि २८

नमस्तुभ्यं भगवते पुरुषाय महीयसे

सर्वभूतनिवासाय वासुदेवाय साक्षिणे २९

नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च

चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ३०

नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे

सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ३१

नमः शिवाय रुद्रा य नमः शक्तिधराय च

सर्वविद्याधिपतये भूतानां पतये नमः ३२

नमो हिरण्यगर्भाय प्राणाय जगदात्मने

योगैश्वर्यशरीराय नमस्ते योगहेतवे ३३

नमस्त आदिदेवाय साक्षिभूताय ते नमः

नारायणाय ऋषये नराय हरये नमः ३४

नमो मरकतश्याम वपुषेऽधिगतश्रिये

केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ३५

त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ

अतस्ते श्रेयसे धीराः पादरेणुमुपासते ३६

अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः

स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ३७

एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम्

अर्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ३८

अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम्

वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः

गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ३९

शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति

ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ४०

निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम्

दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ४१

जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम्

कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ४२

कृत्वा शिरसि तच्छेषां देवमुद्वासयेत्ततः

द्व्यवरान्भोजयेद्विप्रान्पायसेन यथोचितम् ४३

भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः

ब्रह्मचार्यथ तद्रा त्र्! यां श्वो भूते प्रथमेऽहनि ४४

स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः

पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ४५

पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः

पूर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ४६

एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम्

हरेराराधनं होममर्हणं द्विजतर्पणम् ४७

प्रतिपद्दिनमारभ्य यावच्छुक्लत्रयोदशीम्

ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ४८

वर्जयेदसदालापं भोगानुच्चावचांस्तथा

अहिंस्रः सर्वभूतानां वासुदेवपरायणः ४९

त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः

कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ५०

पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः

चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ५१

सूक्तेन तेन पुरुषं यजेत सुसमाहितः

नैवेद्यं चातिगुणवद्दद्यात्पुरुषतुष्टिदम् ५२

आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः

तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ५३

भोजयेत्तान्गुणवता सदन्नेन शुचिस्मिते

अन्यांश्च ब्राह्मणान्छक्त्या ये च तत्र समागताः ५४

दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः

अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान् ५५

भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु

विष्णोस्तत्प्रीणनं विद्वान्भुञ्जीत सह बन्धुभिः ५६

नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः

कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ५७

एतत्पयोव्रतं नाम पुरुषाराधनं परम्

पितामहेनाभिहितं मया ते समुदाहृतम् ५८

त्वं चानेन महाभागे सम्यक्चीर्णेन केशवम्

आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ५९

अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम्

तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ६०

त एव नियमाः साक्षात्त एव च यमोत्तमाः

तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ६१

तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर

भगवान्परितुष्टस्ते वरानाशु विधास्यति ६२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽदितिपयोव्रतकथनं नाम षोडशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः