अथ सप्तत्रिंशोऽध्यायः

श्रीशुक उवाच

केशी तु कंसप्रहितः खुरैर्महीं

महाहयो निर्जरयन्मनोजवः

सटावधूताभ्रविमानसङ्कुलं

कुर्वन्नभो हेषितभीषिताखिलः १

तं त्रासयन्तं भगवान्स्वगोकुलं

तद्धेषितैर्वालविघूर्णिताम्बुदम्

आत्मानमाजौ मृगयन्तमग्रणीर्

उपाह्वयत्स व्यनदन्मृगेन्द्र वत् २

स तं निशाम्याभिमुखो मखेन खं

पिबन्निवाभ्यद्र वदत्यमर्षणः

जघान पद्भ्यामरविन्दलोचनं

दुरासदश्चण्डजवो दुरत्ययः ३

तद्वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः

सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ४

सः लब्धसंज्ञः पुनरुत्थितो रुषा

व्यादाय केशी तरसापतद्धरिम्

सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्

प्रवेशयामास यथोरगं बिले ५

दन्ता निपेतुर्भगवद्भुजस्पृशस्

ते केशिनस्तप्तमयस्पृशो यथा

बाहुश्च तद्देहगतो महात्मनो

यथामयः संववृधे उपेक्षितः ६

समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन्

प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन्क्षितौ व्यसुः ७

तद्देहतः कर्कटिकाफलोपमाद्व्यसोरपाकृष्य भुजं महाभुजः

अविस्मितोऽयत्नहतारिकः सुरैः प्रसूनवर्षैर्वर्षद्भिरीडितः ८

देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप

कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ९

कृष्ण कृष्णाप्रमेयात्मन्योगेश जगदीश्वर

वासुदेवाखिलावास सात्वतां प्रवर प्रभो १०

त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्

गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ११

आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान्

तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः १२

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम्

अवतीर्णो विनाशाय साधुनां रक्षणाय च १३

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः

यस्य हेषितसन्त्रस्तास्त्यजन्त्यनिमिषा दिवम् १४

चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम्

कंसं च निहतं द्र क्ष्ये परश्वोऽहनि ते विभो १५

तस्यानु शङ्खयवन मुराणां नरकस्य च

पारिजातापहरणमिन्द्र स्य च पराजयम् १६

उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम्

नृगस्य मोक्षणं शापाद्द्वारकायां जगत्पते १७

स्यमन्तकस्य च मणेरादानं सह भार्यया

मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः १८

पौण्ड्रकस्य वधं पश्चात्काशिपुर्याश्च दीपनम्

दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ १९

यानि चान्यानि वीर्याणि द्वारकामावसन्भवान्

कर्ता द्र क्ष्याम्यहं तानि गेयानि कविभिर्भुवि २०

अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै

अक्षौहिणीनां निधनं द्र क्ष्याम्यर्जुनसारथेः २१

विशुद्धविज्ञानघनं स्वसंस्थया

समाप्तसर्वार्थममोघवाञ्छितम्

स्वतेजसा नित्यनिवृत्तमाया

गुणप्रवाहं भगवन्तमीमहि २२

त्वामीश्वरं स्वाश्रयमात्ममायया विनिर्मिताशेषविशेषकल्पनम्

क्रीडार्थमद्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् २३

श्रीशुक उवाच

एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः

प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः २४

भगवानपि गोविन्दो हत्वा केशिनमाहवे

पशूनपालयत्पालैः प्रीतैर्व्रजसुखावहः २५

एकदा ते पशून्पालाश्चारयन्तोऽद्रि सानुषु

चक्रुर्निलायनक्रीडाश्चोरपालापदेशतः २६

तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप

मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः २७

मयपुत्रो महामायो व्योमो गोपालवेषधृक्

मेषायितानपोवाह प्रायश्चोरायितो बहून् २८

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः

शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः २९

तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम्

गोपान्नयन्तं जग्राह वृकं हरिरिवौजसा ३०

स निजं रूपमास्थाय गिरीन्द्र सदृशं बली

इच्छन्विमोक्तुमात्मानं नाशक्नोद्ग्रहणातुरः ३१

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले

पश्यतां दिवि देवानां पशुमारममारयत् ३२

गुहापिधानं निर्भिद्य गोपान्निःसार्य कृच्छ्रतः

स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ३३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः