अथ चतुश्चत्वारिंशोऽध्यायः

श्रीशुक उवाच

एवं चर्चितसङ्कल्पो भगवान्मधुसूदनः

आससादाथ चणूरं मुष्ट्तिकं रोहिणीसुतः १

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः

विचकर्षतुरन्योन्यं प्रसह्यविजिगीषया २

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी

शिरः शीर्ष्णोरसोरस्तावन्योन्यमभिजघ्नतुः ३

परिभ्रामणविक्षेप परिरम्भावपातनैः

उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ४

उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि

परस्परं जिगीषन्तावपचक्रतुरात्मनः ५

तद्बलाबलवद्युद्धं समेताः सर्वयोषितः

ऊचुः परस्परं राजन्सानुकम्पा वरूथशः ६

महानयं बताधर्म एषां राजसभासदाम्

ये बलाबलवद्युद्धं राज्ञोऽन्विच्छन्ति पश्यतः ७

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्र सन्निभौ

क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ८

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत्

यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ९

न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन्

अब्रुवन्विब्रुवन्नज्ञो नरः किल्बिषमश्नुते १०

वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम्

वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः ११

किं न पश्यत रामस्य मुखमाताम्रलोचनम्

मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् १२

पुण्या बत व्रजभुवो यदयं नृलिङ्ग

गूढः पुराणपुरुषो वनचित्रमाल्यः

गाः पालयन्सहबलः क्वणयंश्च वेणुं

विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः १३

गोप्यस्तपः किमचरन्यदमुष्य रूपं

लावण्यसारमसमोर्ध्वमनन्यसिद्धम्

दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम्

एकान्तधाम यशसः श्रीय ऐश्वरस्य १४

या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः १५

प्रातर्व्रजाद्व्रजत आविशतश्च सायं

गोभिः समं क्वणयतोऽस्य निशम्य वेणुम्

निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः

पश्यन्ति सस्मितमुखं सदयावलोकम् १६

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः

शत्रुं हन्तुं मनश्चक्रे भगवान्भरतर्षभ १७

सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचातुरौ

पितरावन्वतप्येतां पुत्रयोरबुधौ बलम् १८

तैस्तैर्नियुद्धविधिभिर्विविधैरच्युतेतरौ

युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ १९

भगवद्गात्रनिष्पातैर्वज्रनीष्पेषनिष्ठुरैः

चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह २०

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ

भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत २१

नाचलत्तत्प्रहारेण मालाहत इव द्विपः

बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन्हरिः २२

भूपृष्ठे पोथयामास तरसा क्षीण जीवितम्

विस्रस्ताकल्पकेशस्रगिन्द्र ध्वज इवापतत् २३

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै

बलभद्रे ण बलिना तलेनाभिहतो भृशम् २४

प्रवेपितः स रुधिरमुद्वमन्मुखतोऽर्दितः

व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः २५

ततः कूटमनुप्राप्तं रामः प्रहरतां वरः

अवधील्लीलया राजन्सावज्ञं वाममुष्टिना २६

तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः

द्विधा विदीर्णस्तोशलक उभावपि निपेततुः २७

चाणूरे मुष्टिके कूटे शले तोशलके हते

शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः २८

गोपान्वयस्यानाकृष्य तैः संसृज्य विजह्रतुः

वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ २९

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः

ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति ३०

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट्

न्यवारयत्स्वतूर्याणि वाक्यं चेदमुवाच ह ३१

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात्

धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ३२

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः

उग्रसेनः पिता चापि सानुगः परपक्षगः ३३

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः

लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत् ३४

तमाविशन्तमालोक्य मृत्युमात्मन आसनात्

मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी ३५

तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे

समग्रहीद्दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ३६

प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात्

तस्योपरिष्टात्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ३७

तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः

हा हेति शब्दः सुमहांस्तदाभूदुदीरितः सर्वजनैर्नरेन्द्र ३८

स नित्यदोद्विग्नधिया तमीश्वरं पिबन्नदन्वा विचरन्स्वपन्श्वसन्

ददर्श चक्रायुधमग्रतो यतस्तदेव रूपं दुरवापमाप ३९

तस्यानुजा भ्रातरोऽष्टौ कङ्कन्यग्रोधकादयः

अभ्यधावन्नतिक्रुद्धा भ्रातुर्निर्वेशकारिणः ४०

तथातिरभसांस्तांस्तु संयत्तान्रोहिणीसुतः

अहन्परिघमुद्यम्य पशूनिव मृगाधिपः ४१

नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः

पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः ४२

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः

तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः ४३

शयानान्वीरशयायां पतीनालिङ्ग्य शोचतीः

विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ४४

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल

त्वया हतेन निहता वयं ते सगृहप्रजाः ४५

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ

न शोभते वयमिव निवृत्तोत्सवमङ्गला ४६

अनागसां त्वं भूतानां कृतवान्द्रो हमुल्बणम्

तेनेमां भो दशां नीतो भूतध्रुक्को लभेत शम् ४७

सर्वेषामिह भूतानामेष हि प्रभवाप्ययः

गोप्ता च तदवध्यायी न क्वचित्सुखमेधते ४८

श्रीशुक उवाच

राजयोषित आश्वास्य भगवांल्लोकभावनः

यामाहुर्लौकिकीं संस्थां हतानां समकारयत् ४९

मातरं पितरं चैव मोचयित्वाथ बन्धनात्

कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ५०

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ

कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ५१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुश्चत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः