अथैकविंशोऽध्यायः

विदुर उवाच

स्वायम्भुवस्य च मनोरंशः परमसम्मतः

कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः १

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् २

तस्य वै दुहिता ब्रह्मन्देवहूतीति विश्रुता

पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ३

तस्यां स वै महायोगी युक्तायां योगलक्षणैः

ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ४

रुचिर्यो भगवान्ब्रह्मन्दक्षो वा ब्रह्मणः सुतः

यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ५

मैत्रेय उवाच

प्रजाः सृजेति भगवान्कर्दमो ब्रह्मणोदितः

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ६

ततः समाधियुक्तेन क्रियायोगेन कर्दमः

सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ७

तावत्प्रसन्नो भगवान्पुष्कराक्षः कृते युगे

दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ८

स तं विरजमर्काभं सितपद्मोत्पलस्रजम्

स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ९

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम्

श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् १०

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः

दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ११

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः

गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः १२

ऋषिरुवाच

जुष्टं बताद्याखिलसत्त्वराशेः सांसिद्ध्यमक्ष्णोस्तव दर्शनान्नः

यद्दर्शनं जन्मभिरीड्य सद्भिराशासते योगिनो रूढयोगाः १३

ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम्

उपासते कामलवाय तेषां रासीश कामान्निरयेऽपि ये स्युः १४

तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम्

उपेयिवान्मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य १५

प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः

अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् १६

लोकांश्च लोकानुगतान्पशूंश्च हित्वा श्रितास्ते चरणातपत्रम्

परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः १७

न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व

षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् १८

एकः स्वयं सन्जगतः सिसृक्षया द्वितीययात्मन्नधियोगमायया

सृजस्यदः पाइ! पुनर्ग्रसिष्यसे यथोर्णनाभिर्भगवन्स्वशक्तिभिः १९

नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम्

अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या भगवान्विलक्षितः २०

तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम्

नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम् २१

ऋषिरुवाच

इत्यव्यलीकं प्रणुतोऽब्जनाभस्तमाबभाषे वचसामृतेन

सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः २२

श्रीभगवानुवाच

विदित्वा तव चैत्यं मे पुरैव समयोजि तत्

यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः २३

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम्

भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् २४

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः

ब्रह्मावर्तं योऽधिवसन्शास्ति सप्तार्णवां महीम् २५

स चेह विप्र राजर्षिर्महिष्या शतरूपया

आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः २६

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम्

मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो २७

समाहितं ते हृदयं यत्रेमान्परिवत्सरान्

सा त्वां ब्रह्मन्नृपवधूः काममाशु भजिष्यति २८

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति

वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसात्मनः २९

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः

मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ३०

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान्

मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि माम् ३१

सहाहं स्वांशकलया त्वद्वीर्येण महामुने

तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ३२

मैत्रेय उवाच

एवं तमनुभाष्याथ भगवान्प्रत्यगक्षजः

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ३३

निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः

आकर्णयन्पत्ररथेन्द्र पक्षैरुच्चारितं स्तोममुदीर्णसाम ३४

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवानृषिः

आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ३५

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम्

आरोप्य स्वां दुहितरं सभार्यः पर्यटन्महीम् ३६

तस्मिन्सुधन्वन्नहनि भगवान्यत्समादिशत्

उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ३७

यस्मिन्भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः

कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ३८

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम्

पुण्यं शिवामृतजलं महर्षिगणसेवितम् ३९

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ४०

मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम्

मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् ४१

कदम्बचम्पकाशोक करञ्जबकुलासनैः

कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ४२

कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः

सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ४३

तथैव हरिणैः क्रोडैः श्वाविद्गवयकुञ्जरैः

गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ४४

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः

ददर्श मुनिमासीनं तस्मिन्हुतहुताशनम् ४५

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम्

नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात्

तद्व्याहृतामृतकला पीयूषश्रवणेन च ४६

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम्

उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ४७

अथोटजमुपायातं नृदेवं प्रणतं पुरः

सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ४८

गृहीतार्हणमासीनं संयतं प्रीणयन्मुनिः

स्मरन्भगवदादेशमित्याह श्लक्ष्णया गिरा ४९

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते

वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ५०

योऽर्केन्द्वग्नीन्द्र वायूनां यमधर्मप्रचेतसाम्

रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ५१

न यदा रथमास्थाय जैत्रं मणिगणार्पितम्

विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ५२

स्वसैन्यचरणक्षुण्णं वेपयन्मण्डलं भुवः

विकर्षन्बृहतीं सेनां पर्यटस्यंशुमानिव ५३

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः

भगवद्र चिता राजन्भिद्येरन्बत दस्युभिः ५४

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ५५

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः

तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ५६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः