अथ पञ्चत्रिंशोऽध्यायः

श्रीशुक उवाच

गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः

कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान् १

श्रीगोप्य ऊचुः

वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम्

कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः २

व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः

काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ३

हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत्

नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ४

वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात्

दन्तदष्टकवला धृतकर्णा निद्रि ता लिखितचित्रमिवासन् ५

बर्हिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्हविडम्बः

कर्हिचित्सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः ६

तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम्

स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ७

अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः

वनचरो गिरितटेषु चरन्तीर्वेणुनाह्वयति गाः स यदा हि ८

वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः

प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवो ववृषुः स्म ९

दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः

अलिकुलैरलघु गीतामभीष्टमाद्रि यन्यर्हि सन्धितवेणुः १०

सरसि सारसहंसविहङ्गाश्चारुगीताहृतचेतस एत्य

हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ११

सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः

हर्षयन्यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् १२

महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः

सुहृदमभ्यवर्षत्सुमनोभिश्छायया च विदधत्प्रतपत्रम् १३

विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः

तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत्स्वरजातीः १४

सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः

कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः १५

निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः

व्रजभुवः शमयन्खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः १६

व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः

कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा १७

मणिधरः क्वचिदागणयन्गा मालया दयितगन्धतुलस्याः

प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन्भुजमगायत यत्र १८

क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः

गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः १९

कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम्

नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार २०

मन्दवायुरुपवात्यनकूलं मानयन्मलयजस्पर्शेन

वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः २१

वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः

कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः २२

उत्सवं श्रमरुचापि दृशीनामुन्नयन्खुररजश्छुरितस्रक्

दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः २३

मदविघूर्णितलोचन ईषत्मानदः स्वसुहृदां वनमाली

बदरपाण्डुवदनो मृदुगण्डं मण्डयन्कनककुण्डललक्ष्म्या २४

यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते

मुदितवक्त्र उपयाति दुरन्तं मोचयन्व्रजगवां दिनतापम् २५

श्रीशुक उवाच

एवं व्रजस्त्रियो राजन्कृष्णलीलानुगायतीः

रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः २६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः