अथ तृतीयोऽध्यायः

उद्धव उवाच

ततः स आगत्य पुरं स्वपित्रोश्चिकीर्षया शं बलदेवसंयुतः

निपात्य तुङ्गाद्रि पुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्याम् १

सान्दीपनेः सकृप्रोक्तं ब्रह्माधीत्य सविस्तरम्

तस्मै प्रादाद्वं पुत्रं मृतं पञ्चजनोदरात् २

समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम्

गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः ३

ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह

तद्भग्नमानानपि गृध्यतोऽज्ञाञ्जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ४

प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद्द्युतरुं यदर्थे

वज्र्याद्र वत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम् ५

सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्! या

आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ६

तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम्

उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः ७

आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम्

सविधं जगृहे पाणीननुरूपः स्वमायया ८

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः

एकैकस्यां दश दश प्रकृतेर्विबुभूषया ९

कालमागधशाल्वादीननीकै रुन्धतः पुरम्

अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् १०

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च

अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ११

अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान्

चचाल भूः कुरुक्षेत्रं येषामापततां बलैः १२

स कर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम्

सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् १३

कियान्भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममूलैः

अष्टादशाक्षौहिणिको मदंशैरास्ते बलं दुर्विषहं यदूनाम् १४

मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम्

नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म १५

एवं सञ्चिन्त्य भगवान्स्वराज्ये स्थाप्य धर्मजम्

नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् १६

उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना

स वै द्रौ ण्यस्त्रसम्प्लुष्टः पुनर्भगवता धृतः १७

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः

सोऽपि क्ष्मामनुजै रक्षन्रेमे कृष्णमनुव्रतः १८

भगवानपि विश्वात्मा लोकवेदपथानुगः

कामान्सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः १९

स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया

चरित्रेणानवद्येन श्रीनिकेतेन चात्मना २०

इमं लोकममुं चैव रमयन्सुतरां यदून्

रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः २१

तस्यैवं रममाणस्य संवत्सरगणान्बहून्

गृहमेधेषु योगेषु विरागः समजायत २२

दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान्

को विश्रम्भेत योगेन योगेश्वरमनुव्रतः २३

पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः

कोपिता मुनयः शेपुर्भगवन्मतकोविदाः २४

ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः

ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः २५

तत्र स्नात्वा पित्न्देवानृषींश्चैव तदम्भसा

तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः २६

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान्

यानं रथानिभान्कन्या धरां वृत्तिकरीमपि २७

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम्

गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः