अथैकोनविंशोऽध्यायः

श्रीशुक उवाच

क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् १

अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम्

ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः २

तेऽपश्यन्तः पशून्गोपाः कृष्णरामादयस्तदा

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ३

तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम्

मार्गमन्वगमन्सर्वे नष्टाजीव्या विचेतसः ४

मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन् ५

ता आहूता भगवता मेघगम्भीरया गिरा

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ६

ततः समन्ताद्दवधूमकेतुर्यदृच्छयाभूत्क्षयकृद्वनौकसाम्

समीरितः सारथिनोल्बणोल्मुकैर्विलेलिहानः स्थिरजङ्गमान्महान् ७

तमापतन्तं परितो दवाग्निं गोपाश्च गावः प्रसमीक्ष्य भीताः

ऊचुश्च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ८

कृष्ण कृष्ण महावीर हे रामामोघ विक्रम

दावाग्निना दह्यमानान्प्रपन्नांस्त्रातुमर्हथः ९

नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम्

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः १०

श्रीशुक उवाच

वचो निशम्य कृपणं बन्धूनां भगवान्हरिः

निमीलयत मा भैष्ट लोचनानीत्यभाषत ११

तथेति मीलिताक्षेषु भगवानग्निमुल्बणम्

पीत्वा मुखेन तान्कृच्छ्राद्योगाधीशो व्यमोचयत् १२

ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः

निशम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः १३

कृष्णस्य योगवीर्यं तद्योगमायानुभावितम्

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् १४

गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः

वेणुं विरणयन्गोष्ठमगाद्गोपैरभिष्टुतः १५

गोपीनां परमानन्द आसीद्गोविन्ददर्शने

क्षणं युगशतमिव यासां येन विनाभवत् १६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निपानं नामैकोनविंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः