अथ पञ्चपञ्चाशत्तमोऽध्यायः

श्रीशुक उवाच

कामस्तु वासुदेवांशो दग्धः प्राग्रुद्र मन्युना

देहोपपत्तये भूयस्तमेव प्रत्यपद्यत १

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः

प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः २

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम्

स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद्गृहम् ३

तं निर्जगार बलवान्मीनः सोऽप्यपरैः सह

वृतो जालेन महता गृहीतो मत्स्यजीविभिः ४

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम्

सूदा महानसं नीत्वा वद्यन्सुधितिनाद्भुतम् ५

दृष्ट्वा तदुदरे बालम्मायावत्यै न्यवेदयन्

नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः

बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम् ६

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी

पत्युर्निर्दग्धदेहस्य देहोत्पत्तिम्प्रतीक्षती ७

निरूपिता शम्बरेण सा सूदौदनसाधने

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ८

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः

जनयामास नारीणां वीक्षन्तीनां च विभ्रमम् ९

सा तम्पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम्

सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः १०

तामह भगवान्कार्ष्णिर्मातस्ते मतिरन्यथा

मातृभावमतिक्रम्य वर्तसे कामिनी यथा ११

रतिरुवाच

भवान्नारायणसुतः शम्बरेण हृतो गृहात्

अहं तेऽधिकृता पत्नी रतिः कामो भवान्प्रभो १२

एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुरः

मत्स्योऽग्रसीत्तदुदरादितः प्राप्तो भवान्प्रभो १३

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः

मायाशतविदं तं च मायाभिर्मोहनादिभिः १४

परीशोचति ते माता कुररीव गतप्रजा

पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा १५

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने

मायावती महामायां सर्वमायाविनाशिनीम् १६

स च शम्बरमभ्येत्य संयुगाय समाह्वयत्

अविषह्यैस्तमाक्षेपैः क्षिपन्सञ्जनयन्कलिम् १७

सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः

निश्चक्राम गदापाणिरमर्षात्ताम्रलोचनः १८

गदामाविध्य तरसा प्रद्युम्नाय महात्मने

प्रक्षिप्य व्यनदन्नादं वज्रनिष्पेषनिष्ठुरम् १९

तामापतन्तीं भगवान्प्रद्युम्नो गदया गदाम्

अपास्य शत्रवे क्रुद्धः प्राहिणोत्स्वगदां नृप २०

स च मायां समाश्रित्य दैतेयीं मयदर्शितम्

मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः २१

बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः

सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् २२

ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः

प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः २३

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम्

शम्बरस्य शिरः कायात्ताम्रश्मश्र्वोजसाहरत् २४

आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः

भार्ययाम्बरचारिण्या पुरं नीतो विहायसा २५

अन्तःपुरवरं राजन्ललनाशतसङ्कुलम्

विवेश पत्न्या गगनाद्विद्युतेव बलाहकः २६

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम्

प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् २७

स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः

कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह २८

अवधार्य शनैरीषद्वैलक्षण्येन योषितः

उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः २९

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी

अस्मरत्स्वसुतं नष्टं स्नेहस्नुतपयोधरा ३०

को न्वयम्नरवैदूर्यः कस्य वा कमलेक्षणः

धृतः कया वा जठरे केयं लब्धा त्वनेन वा ३१

मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात्

एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ३२

कथं त्वनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः

आकृत्यावयवैर्गत्या स्वरहासावलोकनैः ३३

स एव वा भवेन्नूनं यो मे गर्भे धृतोऽर्भकः

अमुष्मिन्प्रीतिरधिका वामः स्फुरति मे भुजः ३४

एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः

देवक्यानकदुन्दुभ्यामुत्तमःश्लोक आगमत् ३५

विज्ञातार्थोऽपि भगवांस्तूष्णीमास जनार्दनः

नारदोऽकथयत्सर्वं शम्बराहरणादिकम् ३६

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः

अभ्यनन्दन्बहूनब्दान्नष्टं मृतमिवागतम् ३७

देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः

दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम् ३८

नष्टं प्रद्युम्नमायातमाकर्ण्य द्वारकौकसः

अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ३९

यं वै मुहुः पितृसरूपनिजेशभावास्

तन्मातरो यदभजन्रहरूढभावाः

चित्रं न तत्खलु रमास्पदबिम्बबिम्बे

कामे स्मरेऽक्षविषये किमुतान्यनार्यः ४०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः