अथ सप्तपञ्चाशत्तमोऽध्यायः

श्रीबादरायणिरुवाच

विज्ञातार्थोऽपि गोविन्दो दग्धानाकर्ण्य पाण्डवान्

कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् १

भीष्मं कृपं स विदुरं गान्धारीं द्रो णमेव च

तुल्यदुःखौ च सङ्गम्य हा कष्टमिति होचतुः २

लब्ध्वैतदन्तरं राजन्शतधन्वानमूचतुः

अक्रूरकृतवर्माणौ मनिः कस्मान्न गृह्यते ३

योऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः

कृष्णायादान्न सत्राजित्कस्माद्भ्रातरमन्वियात् ४

एवं भिन्नमतिस्ताभ्यां सत्राजितमसत्तमः

शयानमवधील्लोभात्स पापः क्षीण जीवितः ५

स्त्रीणां विक्रोशमानानां क्रन्दन्तीनामनाथवत्

हत्वा पशून्सौनिकवन्मणिमादाय जग्मिवान् ६

सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता

व्यलपत्तात तातेति हा हतास्मीति मुह्यती ७

तैलद्रो ण्यां मृतं प्रास्य जगाम गजसाह्वयम्

कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर्वधम् ८

तदाकर्ण्येश्वरौ राजन्ननुसृत्य नृलोकताम्

अहो नः परमं कष्टमित्यस्राक्षौ विलेपतुः ९

आगत्य भगवांस्तस्मात्सभार्यः साग्रजः पुरम्

शतधन्वानमारेभे हन्तुं हर्तुं मणिं ततः १०

सोऽपि कृतोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया

साहाय्ये कृतवर्माणमयाचत स चाब्रवीत् ११

नाहमीस्वरयोः कुर्यां हेलनं रामकृष्णयोः

को नु क्षेमाय कल्पेत तयोर्वृजिनमाचरन् १२

कंसः सहानुगोऽपीतो यद्द्वेषात्त्याजितः श्रिया

जरासन्धः सप्तदश संयुगाद्विरथो गतः १३

प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहमयाचत

सोऽप्याह को विरुध्येत विद्वानीश्वरयोर्बलम् १४

य इदं लीलया विश्वं सृजत्यवति हन्ति च

चेष्टां विश्वसृजो यस्य न विदुर्मोहिताजया १५

यः सप्तहायनः शैलमुत्पाट्यैकेन पाणिना

दधार लीलया बाल उच्छिलीन्ध्रमिवार्भकः १६

नमस्तस्मै भगवते कृष्णायाद्भुतकर्मणे

अनन्तायादिभूताय कूटस्थायात्मने नमः १७

प्रत्याख्यातः स तेनापि शतधन्वा महामणिम्

तस्मिन्न्यस्याश्वमारुह्य शतयोजनगं ययौ १८

गरुडध्वजमारुह्य रथं रामजनार्दनौ

अन्वयातां महावेगैरश्वै राजन्गुरुद्रुहम् १९

मिलिआ!यामुपवने विसृज्य पतितं हयम्

पद्भ्यामधावत्सन्त्रस्तः कृष्णोऽप्यन्वद्र वद्रुषा २०

पदातेर्भगवांस्तस्य पदातिस्तिग्मनेमिना

चक्रेण शिर उत्कृत्य वाससोर्व्यचिनोन्मणिम् २१

अलब्धमणिरागत्य कृष्ण आहाग्रजान्तिकम्

वृथा हतः शतधनुर्मणिस्तत्र न विद्यते २२

तत आह बलो नूनं स मणिः शतधन्वना

कस्मिंश्चित्पुरुषे न्यस्तस्तमन्वेष पुरं व्रज २३

अहं वैदेहमिच्छामि द्र ष्टुं प्रियतमं मम

इत्युक्त्वा मिथिलां राजन्विवेश यदनन्दनः २४

तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः

अर्हयां आस विधिवदर्हणीयं समर्हणैः २५

उवास तस्यां कतिचिन्मिथिलायां समा विभुः

मानितः प्रीतियुक्तेन जनकेन महात्मना

ततोऽशिक्षद्गदां काले धार्तराष्ट्रः सुयोधनः २६

केशवो द्वारकामेत्य निधनं शतधन्वनः

अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद्विभुः २७

ततः स कारयामास क्रिया बन्धोर्हतस्य वै

साकं सुहृद्भिर्भगवान्या याः स्युः साम्परायिकीः २८

अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर्वधम्

व्यूषतुर्भयवित्रस्तौ द्वारकायाः प्रयोजकौ २९

अक्रूरे प्रोषितेऽरिष्टान्यासन्वै द्वारकौकसाम्

शारीरा मानसास्तापा मुहुर्दैविकभौतिकाः ३०

इत्यङ्गोपदिशन्त्येके विस्मृत्य प्रागुदाहृतम्

मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ३१

देवेऽवर्षति काशीशः श्वफल्कायागताय वै

स्वसुतां गाण्दिनीं प्रादात्ततोऽवर्षत्स्म काशिषु ३२

तत्सुतस्तत्प्रभावोऽसावक्रूरो यत्र यत्र ह

देवोऽभिवर्षते तत्र नोपतापा न मारीकाः ३३

इति वृद्धवचः श्रुत्वा नैतावदिह कारणम्

इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ३४

पूजयित्वाभिभाष्यैनं कथत्विआ! प्रियाः कथाः

विज्ञताखिलचित्त ज्ञः स्मयमान उवाच ह ३५

ननु दानपते न्यस्तस्त्वय्यास्ते शतधन्वना

स्यमन्तको मनिः श्रीमान्विदितः पूर्वमेव नः ३६

सत्राजितोऽनपत्यत्वाद्गृह्णीयुर्दुहितुः सुताः

दायं निनीयापः पिण्डान्विमुच्यर्णं च शेषितम् ३७

तथापि दुर्धरस्त्वन्यैस्त्वय्यास्तां सुव्रते मणिः

किन्तु मामग्रजः सम्यङ्न प्रत्येति मणिं प्रति ३८

दर्शयस्व महाभाग बन्धूनां शान्तिमावह

अव्युच्छिन्ना मखास्तेऽद्य वर्तन्ते रुक्मवेदयः ३९

एवं सामभिरालब्धः श्वफल्कतनयो मणिम्

आदाय वाससाच्छन्नः ददौ सूर्यसमप्रभम् ४०

स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः

विमृज्य मणिना भूयस्तस्मै प्रत्यर्पयत्प्रभुः ४१

यस्त्वेतद्भगवत ईश्वरस्य विष्णोर्

वीर्याढ्यं वृजिनहरं सुमङ्गलं च

आख्यानं पठति शृणोत्यनुस्मरेद्वा

दुष्कीर्तिं दुरितमपोह्य याति शान्तिम् ४२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः