श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

नवमः स्कन्धः

 

अथ प्रथमोऽध्यायः

श्रीराजोवाच

मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे

वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च १

योऽसौ सत्यव्रतो नाम राजर्षिर्द्र विडेश्वरः

ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया २

स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम्

त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ३

तेषां वंशं पृथग्ब्रह्मन्वंशानुचरितानि च

कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ४

ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये

तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ५

श्रीसूत उवाच

एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम्

पृष्टः प्रोवाच भगवाञ्छुकः परमधर्मवित् ६

श्रीशुक उवाच

श्रूयतां मानवो वंशः प्राचुर्येण परन्तप

न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ७

परावरेषां भूतानामात्मा यः पुरुषः परः

स एवासीदिदं विश्वं कल्पान्तेऽन्यन्न किञ्चन ८

तस्य नाभेः समभवत्पद्मकोषो हिरण्मयः

तस्मिन्जज्ञे महाराज स्वयम्भूश्चतुराननः ९

मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः

दाक्षायण्यां ततोऽदित्यां विवस्वानभवत्सुतः १०

ततो मनुः श्राद्धदेवः संज्ञायामास भारत

श्रद्धायां जनयामास दश पुत्रान्स आत्मवान् ११

इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान्

नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः १२

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान्किल

मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः १३

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत

दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता १४

प्रेषितोऽध्वर्युणा होता व्यचरत्तत्समाहितः

गृहीते हविषि वाचा वषट्कारं गृणन्द्विजः १५

होतुस्तद्व्यभिचारेण कन्येला नाम साभवत्

तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् १६

भगवन्किमिदं जातं कर्म वो ब्रह्मवादिनाम्

विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया १७

यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः

कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्विव १८

निशम्य तद्वचस्तस्य भगवान्प्रपितामहः

होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् १९

एतत्सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः

तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा २०

एवं व्यवसितो राजन्भगवान्स महायशाः

अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया २१

तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः

ददाविलाभवत्तेन सुद्युम्नः पुरुषर्षभः २२

स एकदा महाराज विचरन्मृगयां वने

वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् २३

प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान्

दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम् २४

सुकुमारवनं मेरोरधस्तात्प्रविवेश ह

यत्रास्ते भगवान्छर्वो रममाणः सहोमया २५

तस्मिन्प्रविष्ट एवासौ सुद्युम्नः परवीरहा

अपश्यत्स्त्रियमात्मानमश्वं च वडवां नृप २६

तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम्

दृष्ट्वा विमनसोऽभूवन्वीक्षमाणाः परस्परम् २७

श्रीराजोवाच

कथमेवं गुणो देशः केन वा भगवन्कृतः

प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः २८

श्रीशुक उवाच

एकदा गिरिशं द्र ष्टुमृषयस्तत्र सुव्रताः

दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् २९

तान्विलोक्याम्बिका देवी विवासा व्रीडिता भृशम्

भर्तुरङ्कात्समुत्थाय नीवीमाश्वथ पर्यधात् ३०

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः

निवृत्ताः प्रययुस्तस्मान्नरनारायणाश्रमम् ३१

तदिदं भगवानाह प्रियायाः प्रियकाम्यया

स्थानं यः प्रविशेदेतत्स वै योषिद्भवेदिति ३२

तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि

सा चानुचरसंयुक्ता विचचार वनाद्वनम् ३३

अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम्

स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान्बुधः ३४

सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम्

स तस्यां जनयामास पुरूरवसमात्मजम् ३५

एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः

सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ३६

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः

सुद्युम्नस्याशयन्पुंस्त्वमुपाधावत शङ्करम् ३७

तुष्टस्तस्मै स भगवानृषये प्रियमावहन्

स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ३८

मासं पुमान्स भविता मासं स्त्री तव गोत्रजः

इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ३९

आचार्यानुग्रहात्कामं लब्ध्वा पुंस्त्वं व्यवस्थया

पालयामास जगतीं नाभ्यनन्दन्स्म तं प्रजाः ४०

तस्योत्कलो गयो राजन्विमलश्च त्रयः सुताः

दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ४१

ततः परिणते काले प्रतिष्ठानपतिः प्रभुः

पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ४२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः