अथ त्रयोदशोऽध्यायः

सूत उवाच

यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्

वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः १

पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्

निद्रा लोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः

यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसां

यातायातमतन्द्रि तं जलनिधेर्नाद्यापि विश्राम्यति २

पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने

दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ३

ब्राह्मं दश सहस्राणि पाद्मं पञ्चोनषष्टि च

श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ४

दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति

मार्कण्डं नव वाह्नं च दशपञ्च चतुःशतम् ५

चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च

दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ६

चतुर्विंशति वाराहमेकाशीतिसहस्रकम्

स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ७

कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश

एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ८

एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृतः

तत्राष्टदशसाहस्रं श्रीभागवतं इष्यते ९

इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे

स्थिताय भवभीताय कारुण्यात्सम्प्रकाशितम् १०

आदिमध्यावसानेषु वैराग्याख्यानसंयुतम्

हरिलीलाकथाव्राता मृतानन्दितसत्सुरम् ११

सर्ववेदान्तसारं यद्ब्रह्मात्मैकत्वलक्षणम्

वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् १२

प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम्

ददाति यो भागवतं स याति परमां गतिम् १३

राजन्ते तावदन्यानि पुराणानि सतां गणे

यावद्भागवतं नैव श्रूयतेऽमृतसागरम् १४

सर्ववेदान्तसारं हि श्रीभागवतमिष्यते

तद्र सामृततृप्तस्य नान्यत्र स्याद्र तिः क्वचित् १५

निम्नगानां यथा गङ्गा देवानामच्युतो यथा

वैष्णवानां यथा शम्भुः पुराणानामिदम्तथा १६

क्षेत्राणां चैव सर्वेषां यथा काशी ह्यनुत्तमा

तथा पुराणव्रातानां श्रीमद्भागवतं द्विजाः १७

श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं

यस्मिन्पारमहंस्यमेकममलं ज्ञानं परं गीयते

तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविस्कृतं

तच्छृण्वन्सुपठन्विचारणपरो भक्त्या विमुच्येन्नरः १८

कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीपः पुरा

तद्रू पेण च नारदाय मुनये कृष्णाय तद्रू पिणा

योगीन्द्रा य तदात्मनाथ भगवद्रा ताय कारुण्यतस्

तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि १९

नमस्तस्मै भगवते वासुदेवाय साक्षिणे

य इदम्कृपया कस्मै व्याचचक्षे मुमुक्षवे २०

योगीन्द्रा य नमस्तस्मै शुकाय ब्रह्मरूपिणे

संसारसर्पदष्टं यो विष्णुरातममूमुचत् २१

भवे भवे यथा भक्तिः पादयोस्तव जायते

तथा कुरुष्व देवेश नाथस्त्वं नो यतः प्रभो २२

नामसङ्कीर्तनं यस्य सर्वपाप प्रणाशनम्

प्रणामो दुःखशमनस्तं नमामि हरिं परम् २३

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां द्वादशस्कन्धे त्रयोदशोऽध्यायः

इति द्वादशः स्कन्धः समाप्तः

हरिः ॐ तत्सत्

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः