अथैकचत्वारिंशोऽध्यायः

श्रीशुक उवाच

स्तुवतस्तस्य भगवान्दर्शयित्वा जले वपुः

भूयः समाहरत्कृष्णो नटो नाट्यमिवात्मनः १

सोऽपि चान्तर्हितं वीक्ष्य जलादुन्मज्य सत्वरः

कृत्वा चावश्यकं सर्वं विस्मितो रथमागमत् २

तमपृच्छद्धृषीकेशः किं ते दृष्टमिवाद्भुतम्

भूमौ वियति तोये वा तथा त्वां लक्षयामहे ३

श्रीअक्रूर उवाच

अद्भुआ!नीह यावन्ति भूमौ वियति वा जले

त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ४

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले

तं त्वानुपश्यतो ब्रह्मन्किं मे दृष्टमिहाद्भुतम् ५

इत्युक्त्वा चोदयामास स्यन्दनं गान्दिनीसुतः

मथुरामनयद्रा मं कृष्णं चैव दिनात्यये ६

मार्गे ग्रामजना राजंस्तत्र तत्रोपसङ्गताः

वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ७

तावद्व्रजौकसस्तत्र नन्दगोपादयोऽग्रतः

पुरोपवनमासाद्य प्रतीक्षन्तोऽवतस्थिरे ८

तान्समेत्याह भगवानक्रूरं जगदीश्वरः

गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्निव ९

भवान्प्रविशतामग्रे सहयानः पुरीं गृहम्

वयं त्विहावमुच्याथ ततो द्र क्ष्यामहे पुरीम् १०

श्रीअक्रूर उवाच

नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो

त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ११

आगच्छ याम गेहान्नः सनाथान्कुर्वधोक्षज

सहाग्रजः सगोपालैः सुहृद्भिश्च सुहृत्तम १२

पुनीहि पादरजसा गृहान्नो गृहमेधिनाम्

यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः १३

अवनिज्याङ्घ्रियुगलमासीत्श्लोक्यो बलिर्महान्

ऐश्वर्यमतुलं लेभे गतिं चैकान्तिनां तु या १४

आपस्तेऽङ्घ्र्यवनेजन्यस्त्रींल्लोकान्शुचयोऽपुनन्

शिरसाधत्त याः शर्वः स्वर्याताः सगरात्मजाः १५

देवदेव जगन्नाथ पुण्यश्रवणकीर्तन

यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते १६

श्रीभगवनुवाच

आयास्ये भवतो गेहमहमर्यसमन्वितः

यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् १७

श्रीशुक उवाच

एवमुक्तो भगवता सोऽक्रूरो विमना इव

पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ १८

अथापराह्ने भगवान्कृष्णः सङ्कर्षणान्वितः

मथुरां प्राविशद्गोपैर्दिदृक्षुः परिवारितः १९

ददर्श तां स्फाटिकतुण्गगोपुर द्वारां बृहद्धेमकपाटतोरणाम्

ताम्रारकोष्ठां परिखादुरासदामुद्यानरम्योपवनोपशोभिताम् २०

सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर्भवनैरुपस्कृताम्

वैदूर्यवज्रामलनीलविद्रुमैर्मुक्ताहरिद्भिर्वलभीषु वेदिषु २१

जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्वाविष्टपारावतबर्हिनादिताम्

संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् २२

आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः

सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतद्वारगृहां सपट्टिकैः २३

तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना

द्र ष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः २४

काश्चिद्विपर्यग्धृतवस्त्रभूषणा

विस्मृत्य चैकं युगलेष्वथापराः

कृतैकपत्रश्रवनैकनूपुरा

नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम् २५

अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः

स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः २६

मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकैः

जहार मत्तद्विरदेन्द्र विक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम् २७

दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं

तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः

आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं

हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम् २८

प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः

अभ्यवर्षन्सौमनस्यैः प्रमदा बलकेशवौ २९

दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः

तावानर्चुः प्रमुदितास्तत्र तत्र द्विजातयः ३०

ऊचुः पौरा अहो गोप्यस्तपः किमचरन्महत्

या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ ३१

रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः

दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च ३२

देह्यावयोः समुचितान्यङ्ग वासांसि चार्हतोः

भविष्यति परं श्रेयो दातुस्ते नात्र संशयः ३३

स याचितो भगवता परिपूर्णेन सर्वतः

साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ३४

ईदृशान्येव वासांसी नित्यं गिरिवनेचरः

परिधत्त किमुद्वृत्ता राजद्र व्याण्यभीप्सथ ३५

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ३६

एवं विकत्थमानस्य कुपितो देवकीसुतः

रजकस्य कराग्रेण शिरः कायादपातयत् ३७

तस्यानुजीविनः सर्वे वासःकोशान्विसृज्य वै

दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः ३८

वसित्वात्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा

शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित् ३९

ततस्तु वायकः प्रीतस्तयोर्वेषमकल्पयत्

विचित्रवर्णैश्चैलेयैराकल्पैरनुरूपतः ४०

नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः

स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ४१

तस्य प्रसन्नो भगवान्प्रादात्सारूप्यमात्मनः

श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रि यम् ४२

ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः

तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ४३

तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः

पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः ४४

प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो

पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ४५

भवन्तौ किल विश्वस्य जगतः कारणं परम्

अवतीर्णाविहांशेन क्षेमाय च भवाय च ४६

न हि वां विषमा दृष्टिः सुहृदोर्जगदात्मनोः

समयोः सर्वभूतेषु भजन्तं भजतोरपि ४७

तावज्ञापयतं भृत्यं किमहं करवाणि वाम्

पुंसोऽत्यनुग्रहो ह्येष भवद्भिर्यन्नियुज्यते ४८

इत्यभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः

शस्तैः सुगन्धैः कुसुमैर्माला विरचिता ददौ ४९

ताभिः स्वलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ

प्रणताय प्रपन्नाय ददतुर्वरदौ वरान् ५०

सोऽपि वव्रेऽचलां भक्तिं तस्मिन्नेवाखिलात्मनि

तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ५१

इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम्

बलमायुर्यशः कान्तिं निर्जगाम सहाग्रजः ५२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः