अथ चतुर्विंशोऽध्यायः

श्रीशुक उवाच

अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यत-दर्हस्तस्य तात जन्म कर्माणि चोपरिष्टाद्वक्ष्यामः १

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादश-सहस्रं सोमस्य त्रयोदशसहस्रं राहोर्यः पर्वणि तद्व्यवधानकृद्वैरा-नुबन्धः सूर्याचन्द्र मसावभिधावति २

तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं

दयितमस्त्रं तत्तेजसा दुर्विषहं मुहुः परिवर्तमानमभ्यवस्थितो मुहूर्त-मुद्विजमानश्चकितहृदय आरादेव निवर्तते तदुपरागमिति वदन्ति लोकाः ३

ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ४

ततोऽधस्ताद्यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायुः प्रवाति यावन्मेघा उपलभ्यन्ते ५

ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्धंसभासश्येनसुपर्णादयः पतत्त्रि

प्रवरा उत्पतन्तीति ६

उपवर्णितं भूमेर्यथासन्निवेशावस्थानमवनेरप्यधस्तात्सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति ७

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूति-भिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्र वेया नित्यप्र-मुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिह-तकामा मायाविनोदा निवसन्ति ८

येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्र-वेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभि-र्नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृ-होत्तमैः समलङ्कृताश्चकासति ९

उद्यानानि चातितरां मनैन्द्रि यानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समि-थुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां झषकुलोल्लङ्घन-क्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिव-नेषु कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रि -योत्सवैरमरलोकश्रियमतिशयितानि १०

यत्र ह वाव न भयमहोरात्रादिभिः कालविभागैरुपलक्ष्यते ११

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते १२

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानि-रिति वयोऽवस्थाश्च भवन्ति १३

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तजसश्च-क्रापदेशात् १४

यस्मिन्प्रविष्टेऽसुरवधूनां प्रायः पुंसवनानि भयादेव स्रवन्ति पतन्ति च १५

अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्ण-वतिर्मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष ईश्वरोऽहं सिद्धो ऽहमित्ययुतमहागज-बलमात्मानमभिमन्यमानः कत्थते मदान्ध इव १६

ततोऽधस्ताद्वितले हरो भगवान्हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र चित्रभानुर्मातरि-श्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रा वरोधेषु पुरुषाः सह पुरुषीभिर्धारयन्ति १७

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलि-र्भगवता महेन्द्र स्य प्रियं चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटु-वामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुनः प्रवेशित इन्द्रा दिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयं-स्तमेव भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि १८

नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षादपवर्ग-द्वारस्य यद्बिलनिलयैश्वर्यम् १९

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन्नामाभिगृणन्पुरुषः कर्म

बन्धनमञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते २०

तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव २१

न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं माया-मयभोगैश्वर्यमेवातनुतेति २२

यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशे-षितलोकत्रयो वरुणपाशैश्च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच २३

नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रे णात्मानम-याचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः कालस्य म-न्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् २४

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्! यं यदुता-कुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपि-तरि २५

तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीण-भगवदनुग्रह उपजिगमिषतीति २६

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजग-द्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः२७

ततोऽधस्तात्तलातले मयो नाम दानवेन्द्र स्त्रिपुराधिपतिर्भगवता पुरा-रिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते २८

ततोऽधस्तान्महातले काद्र वेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः स्वकलत्रापत्य-सुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति २९

ततोऽधस्ताद्र सातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेरेव तेजसा प्रति-हतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र दूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्रा द्बिभ्यति ३०

ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिक-महाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषामु ह वै पञ्चसप्तदशशतसहस्र-शीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरति-मिरनिकरं स्वरोचिषा विधमन्ति ३१

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे राह्वादिस्थितिबिलस्वर्गमर्यादानिरूपणं नाम चतुर्विंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः