अथाष्टामोऽध्यायः

श्रीनारद उवाच

अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम्

जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् १

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम्

आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा २

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम्

कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ३

क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम्

आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ४

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम्

सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः ५

श्रीहिरण्यकशिपुरुवाच

हे दुर्विनीत मन्दात्मन्कुलभेदकराधम

स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ६

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः

तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ७

श्रीप्रह्राद उवाच

न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम्

परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ८

स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रि यात्मा

स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ९

जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः

ऋतेऽजितादात्मन उत्पथे स्थितात्तद्धि ह्यनन्तस्य महत्समर्हणम् १०

दस्यून्पुरा षण्न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश

जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ११

श्रीहिरण्यकशिपुरुवाच

व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे

मुमूर्षूणां हि मन्दात्मन्ननु स्युर्विक्लवा गिरः १२

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः

क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते १३

सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते

गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् १४

एवं दुरुक्तैर्मुहुरर्दयन्रुषा सुतं महाभागवतं महासुरः

खड्गं प्रगृह्योत्पतितो वरासनात्स्तम्भं तताडातिबलः स्वमुष्टिना १५

तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत्

यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे १६

स विक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम्

अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः १७

सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः

अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् १८

स सत्त्वमेनं परितो विपश्यन्स्तम्भस्य मध्यादनुनिर्जिहानम्

नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्र रूपम् १९

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम्

प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेशरजृम्भिताननम् २०

करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम्

स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् २१

दिविस्पृशत्कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम्

चन्द्रा शुं!गौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम् २२

दुरासदं सर्वनिजेतरायुध प्रवेकविद्रा वितदैत्यदानवम्

प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् २३

एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः

अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा २४

न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः

ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया २५

तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत्

स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः २६

असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः

तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः

पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे २७

तं श्येनवेगं शतचन्द्र वर्त्मभिश्चरन्तमच्छिद्र मुपर्यधो हरिः

कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः २८

विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम्

द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् २९

संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया

असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ३०

नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान्

अहन्समस्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान्सहस्रशः ३१

सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः

अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ३२

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता

शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ३३

ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम्

अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ३४

निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे

प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ३५

तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम्

सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ३६

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र गिरिशादयः

ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ३७

मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः

यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ३८

ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः

मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम्

ईडिरे नरशार्दुलं नातिदूरचराः पृथक् ३९

श्रीब्रह्मोवाच

नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे

विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ४०

श्रीरुद्र उवाच

कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः

तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ४१

श्रीइन्द्र उवाच

प्रत्यानीताः परम भवता त्रायता नः स्वभागा

दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि

कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते

मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम ४२

श्रीऋषय ऊचुः

त्वं नस्तपः परममात्थ यदात्मतेजो

येनेदमादिपुरुषात्मगतं ससर्क्थ

तद्विप्रलुप्तममुनाद्य शरण्यपाल

रक्षागृहीतवपुषा पुनरन्वमंस्थाः ४३

श्रीपितर ऊचुः

श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्

दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु

तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्

तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ४४

श्रीसिद्धा ऊचुः

यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन

नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ४५

श्रीविद्याधरा ऊचुः

विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः

स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ४६

श्रीनागा ऊचुः

येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः

तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ४७

श्रीमनव ऊचुः

मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः

भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ४८

श्रीप्रजापतय ऊचुः

प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः

स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ४९

श्रीगन्धर्वा ऊचुः

वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः

स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ५०

श्रीचारणा ऊचुः

हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः

यदेष साधुहृच्छयस्त्वयासुरः समापितः ५१

श्रीयक्षा ऊचुः

वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्

त इह दितिसुतेन प्रापिता वाहकत्वम्

स तु जनपरितापं तत्कृतं जानता ते

नरहर उपनीतः पञ्चतां पञ्चविंश ५२

श्रीकिम्पुरुषा ऊचुः

वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः

अयं कुपुरुषो नष्टो धिक्कृतः साधुर्यिदा ५३

श्रीवैतालिका ऊचुः

सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे

यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन्यथामयः ५४

श्रीकिन्नरा ऊचुः

वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः

भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ५५

श्रीविष्णुपार्षदा ऊचुः

अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म

सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ५६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः