अथ सप्तदशोऽध्यायः

श्रीराजोवाच

नागालयं रमणकं कथं तत्याज कालियः

कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् १

श्रीशुक उवाच

उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः

वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः २

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि

गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ३

विषवीर्यमदाविष्टः काद्र वेयस्तु कालियः

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ४

तच्छ्रुत्वा कुपितो राजन्भगवान्भगवत्प्रियः

विजिघांसुर्महावेगः कालियं समपाद्र वत् ५

तमापतन्तं तरसा विषायुधः प्रत्यभ्ययादुत्थितनैकमस्तकः

दद्भिः सुपर्णं व्यदशद्ददायुधः करालजिह्रोच्छ्वसितोग्रलोचनः ६

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान्

प्रचण्डवेगो मधुसूदनासनः

पक्षेण सव्येन हिरण्यरोचिषा

जघान कद्रुसुतमुग्रविक्रमः ७

सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः

ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ८

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम्

निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ९

मीनान्सुदुःखितान्दृष्ट्वा दीनान्मीनपतौ हते

कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् १०

अत्र प्रविश्य गरुडो यदि मत्स्यान्स खादति

सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् ११

तत्कालियः परं वेद नान्यः कश्चन लेलिहः

अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः १२

कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम्

महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् १३

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः

प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे १४

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव

कृष्णं समेत्य लब्धेहा आसन्शुष्का नगा अपि १५

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित्

प्रेम्णा तमङ्कमारोप्य पुनः पुनरुदैक्षत

गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् १६

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः

ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः १७

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे

नन्दः प्रीतमना राजन्गाः सुवर्णं तदादिशत् १८

यशोदापि महाभागा नष्टलब्धप्रजा सती

परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः १९

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः

ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः २०

तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम्

सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे २१

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः

कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् २२

कृष्ण कृष्ण महाभग हे रामामितविक्रम

एष घोरतमो वह्निस्तावकान्ग्रसते हि नः २३

सुदुस्तरान्नः स्वान्पाहि कालाग्नेः सुहृदः प्रभो

न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् २४

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः

तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् २५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः