अथ नवमोऽध्यायः

श्रीशुक उवाच

तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् १

अहो रूपमहो धाम अहो अस्या नवं वयः

इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः २

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि

कस्यासि वद वामोरु मथ्नतीव मनांसि नः ३

न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः

नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ४

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम्

सर्वेन्द्रि यमनःप्रीतिं विधातुं सघृणेन किम् ५

सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि

ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ६

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः

विभजस्व यथान्यायं नैव भेदो यथा भवेत् ७

इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः

प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ८

श्रीभगवानुवाच

कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः

विश्वासं पण्डितो जातु कामिनीषु न याति हि ९

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः

सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् १०

श्रीशुक उवाच

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः

जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ११

ततो गृहीत्वामृतभाजनं हरिर्बभाष ईषत्स्मितशोभया गिरा

यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् १२

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः

अप्रमाणविदस्तस्यास्तत्तथेत्यन्वमंसत १३

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम्

दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः १४

यथोपजोषं वासांसि परिधायाहतानि ते

कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिताः १५

प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च

धूपामोदितशालायांजुष्टायां माल्यदीपकैः १६

तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी

सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश १७

तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम्

संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् १८

असुराणां सुधादानं सर्पाणामिव दुर्नयम्

मत्वा जातिनृशंसानां न तां व्यभजदच्युतः १९

कल्पयित्वा पृथक्पङ्क्तीरुभयेषां जगत्पतिः

तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु २०

दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरैः

दूरस्थान्पाययामासजरामृत्युहरां सुधाम् २१

ते पालयन्तः समयमसुराः स्वकृतं नृप

तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया २२

तस्यां कृतातिप्रणयाः प्रणयापायकातराः

बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् २३

देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि

प्रविष्टः सोममपिबच्चन्द्रा र्काभ्यां च सूचितः २४

चक्रेण क्षुरधारेण जहार पिबतः शिरः

हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् २५

शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत्

यस्तु पर्वणि चन्द्रा र्कावभिधावति वैरधीः २६

पीतप्रायेऽमृते देवैर्भगवान्लोकभावनः

पश्यतामसुरेन्द्रा णां स्वं रूपं जगृहे हरिः २७

एवं सुरासुरगणाः समदेशकाल

हेत्वर्थकर्ममतयोऽपि फले विकल्पाः

तत्रामृतं सुरगणाः फलमञ्जसापुर्

यत्पादपङ्कजरजःश्रयणान्न दैत्याः २८

यद्युज्यतेऽसुवसुकर्ममनोवचोभिर्

देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात्

तैरेव सद्भवति यत्क्रियतेऽपृथक्त्वात्

सर्वस्य तद्भवति मूलनिषेचनं यत् २९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने नवमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः