अथ चतुर्थोऽध्यायः

श्रीशुक उवाच

तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः

मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः १

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः

ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् २

योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक्

मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ३

प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम्

अगायत यशोधाम कीर्तन्यगुणसत्कथम् ४

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम्

लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ५

गजेन्भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात्

प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ६

स वै पूर्वमभूद्रा जा पाण्ड्यो द्र विडसत्तमः

इन्द्र द्युम्न इति ख्यातो विष्णुव्रतपरायणः ७

स एकदाराधनकाल आत्मवान्गृहीतमौनव्रत ईश्वरं हरिम्

जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ८

यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः

तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ९

तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धिरद्य

विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव १०

श्रीशुक उवाच

एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप सानुगः

इन्द्र द्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ११

आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम्

हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः १२

एवं विमोक्ष्य गजयूथपमब्जनाभस्

तेनापि पार्षदगतिं गमितेन युक्तः

गन्धर्वसिद्धविबुधैरुपगीयमान

कर्माद्भुतं स्वभवनं गरुडासनोऽगात् १३

एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम्

स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् १४

यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः

शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये १५

इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम

शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः १६

श्रीभगवानुवाच

ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम्

वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् १७

शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च

क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् १८

श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम

सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् १९

शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम्

ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च २०

मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे

कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् २१

प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययम्

दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि २२

गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम्

ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् २३

उत्थायापररात्रान्ते प्रयताः सुसमाहिताः

स्मरन्ति मम रूपाणि मुच्यन्ते तेऽक्त्!असोऽखिलात् २४

ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये

तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् २५

श्रीशुक उवाच

इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम्

हर्षयन्विबुधानीकमारुरोह खगाधिपम् २६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणं नाम चतुर्थोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः