अथाष्टचत्वारिंशोऽध्यायः

श्रीशुक उवाच

अथ विज्ञाय भगवान्सर्वात्मा सर्वदर्शनः

सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन्गृहं ययौ १

महार्होपस्करैराढ्यं कामोपायोपबृंहितम्

मुक्तादामपताकाभिर्वितानशयनासनैः

धूपैः सुरभिभिर्दीपैः स्रग्गन्धैरपि मण्डितम् २

गृहं तमायान्तमवेक्ष्य सासनात्सद्यः समुत्थाय हि जातसम्भ्रमा

यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सदासनादिभिः ३

तथोद्धः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम्

कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः ४

सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः

प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ५

आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे

प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया ६

सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोर्

जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती

दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्

आनन्दमूर्तिमजहादतिदीर्घतापम् ७

सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम्

अङ्गरागार्पणेनाहो दुर्भगेदमयाचत ८

सहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया

रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण ९

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः

सहोद्धवेन सर्वेशः स्वधामागमदृद्धिमत् १०

दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम्

यो वृणीते मनोग्राह्यमसत्त्वात्कुमनीष्यसौ ११

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः

किञ्चिच्चिकीर्षयन्प्रागादक्रूरप्रीयकाम्यया १२

स तान्नरवरश्रेष्ठानाराद्वीक्ष्य स्वबान्धवान्

प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च १३

ननाम कृष्णं रामं च स तैरप्यभिवादितः

पूजयामास विधिवत्कृतासनपरिग्रहान् १४

पादावनेजनीरापो धारयन्शिरसा नृप

अर्हणेनाम्बरैर्दिव्यैर्गन्धस्रग्भूषणोत्तमैः १५

अर्चित्वा शिरसानम्य पादावङ्कगतौ मृजन्

प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत १६

दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम्

भवद्भ्यामुद्धृतं कृच्छ्राद्दुरन्ताच्च समेधितम् १७

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ

भवद्भ्यां न विना किञ्चित्परमस्ति न चापरम् १८

आत्मसृष्टमिदं विश्वमन्वाविश्य स्वशक्तिभिः

ईयते बहुधा ब्रह्मन्श्रु तप्रत्यक्षगोचरम् १९

यथा हि भूतेषु चराचरेषु मह्यादयो योनिषु भान्ति नाना

एवं भवान्केवल आत्मयोनिष्वात्मात्मतन्त्रो बहुधा विभाति २०

सृजस्यथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः

न बध्यसे तद्गुणकर्मभिर्वा ज्ञानात्मनस्ते क्व च बन्धहेतुः २१

देहाद्युपाधेरनिरूपितत्वाद्भवो न साक्षान्न भिदात्मनः स्यात्

अतो न बन्धस्तव नैव मोक्षः स्याताम्निकामस्त्वयि नोऽविवेकः २२

त्वयोदितोऽयं जगतो हिताय यदा यदा वेदपथः पुराणः

बाध्येत पाषण्डपथैरसद्भिस्तदा भवान्सत्त्वगुणं बिभर्ति २३

स त्वम्प्रभोऽद्य वसुदेवगृहेऽवतीर्णः

स्वांशेन भारमपनेतुमिहासि भूमेः

अक्षौहिणीशतवधेन सुरेतरांश

राज्ञाममुष्य च कुलस्य यशो वितन्वन् २४

अद्येश नो वसतयः खलु भूरिभागा

यः सर्वदेवपितृभूतनृदेवमूर्तिः

यत्पादशौचसलिलं त्रिजगत्पुनाति

स त्वं जगद्गुरुरधोक्षज याः प्रविष्टः २५

कः पण्डितस्त्वदपरं शरणं समीयाद्

भक्तप्रियादृतगिरः सुहृदः कृतज्ञात्

सर्वान्ददाति सुहृदो भजतोऽभिकामान्

आत्मानमप्युपचयापचयौ न यस्य २६

दिष्ट्या जनार्दन भवानिह नः प्रतीतो

योगेश्वरैरपि दुरापगतिः सुरेशैः

छिन्ध्याशु नः सुतकलत्रधनाप्तगेह

देहादिमोहरशनां भवदीयमायाम् २७

इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः

अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव २८

श्रीभगवानुवाच

त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा

वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः २९

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः

श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ३०

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः

ते पुनन्त्युरुकालेन दर्शनादेव साधवः ३१

स भवान्सुहृदां वै नः श्रेयान्श्रेयश्चिकीर्षया

जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ३२

पितर्युपरते बालाः सह मात्रा सुदुःखिताः

आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ३३

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः

समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ३४

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा

विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ३५

इत्यक्रूरं समादिश्य भगवान्हरिरीश्वरः

सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ३६

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः