अथ षष्ठोऽध्यायः

श्रीशुक उवाच

नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन्

हरिं जगाम शरणमुत्पातागमशङ्कितः १

कंसेन प्रहिता घोरा पूतना बालघातिनी

शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु २

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु

कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ३

सा खेचर्येकदोत्पत्य पूतना नन्दगोकुलम्

योषित्वा माययात्मानं प्राविशत्कामचारिणी ४

तां केशबन्धव्यतिषक्तमल्लिकां

बृहन्नितम्बस्तनकृच्छ्रमध्यमाम्

सुवाससं कल्पितकर्णभूषण

त्विषोल्लसत्कुन्तलमण्डिताननाम् ५

वल्गुस्मितापाङ्गविसर्गवीक्षितैर्

मनो हरन्तीं वनितां व्रजौकसाम्

अमंसताम्भोजकरेण रूपिणीं

गोप्यः श्रियं द्र ष्टुमिवागतां पतिम् ६

बालग्रहस्तत्र विचिन्वती शिशून्यदृच्छया नन्दगृहेऽसदन्तकम्

बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेऽग्निमिवाहितं भसि ७

विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः

अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ८

तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत्

वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्यतिष्ठताम् ९

तस्मिन्स्तनं दुर्जरवीर्यमुल्बणं

घोराङ्कमादाय शिशोर्ददावथ

गाढं कराभ्यां भगवान्प्रपीड्य तत्

प्राणैः समं रोषसमन्वितोऽपिबत् १०

सा मुञ्च मुञ्चालमिति प्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि

विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ११

तस्याः स्वनेनातिगभीररंहसा साद्रि र्मही द्यौश्च चचाल सग्रहा

रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया १२

निशाचरीत्थं व्यथितस्तना व्यसुर्

व्यादाय केशांश्चरणौ भुजावपि

प्रसार्य गोष्ठे निजरूपमास्थिता

वज्राहतो वृत्र इवापतन्नृप १३

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान्

चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम् १४

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम्

गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् १५

अन्धकूपगभीराक्षं पुलिनारोहभीषणम्

बद्धसेतुभुजोर्वङ्घ्रि शून्यतोयह्रदोदरम् १६

सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम्

पूर्वं तु तन्निःस्वनित भिन्नहृत्कर्णमस्तकाः १७

बालं च तस्या उरसि क्रीडन्तमकुतोभयम्

गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः १८

यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः

रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः १९

गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम्

रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः २०

गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक्

न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत २१

अव्यादजोऽङ्घ्रि मणिमांस्तव जान्वथोरू

यज्ञोऽच्युतः कटितटं जठरं हयास्यः

हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् २२

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र स्

तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् २३

इन्द्रि याणि हृषीकेशः प्राणान्नारायणोऽवतु

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु २४

पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः २५

व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियः पतिः

भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः २६

डाकिन्यो यातुधान्यश्च कुष्माण्डा येऽर्भकग्रहाः

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः २७

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रि यद्रुहः २८

स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश्च ये

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः २९

श्रीशुक उवाच

इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम्

पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ३०

तावन्नन्दादयो गोपा मथुराया व्रजं गताः

विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ३१

नूनं बतर्षिः सञ्जातो योगेशो वा समास सः

स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः ३२

कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः

दूरे क्षिप्त्वावयवशो न्यदहन्काष्ठवेष्टितम् ३३

दह्यमानस्य देहस्य धूमश्चागुरुसौरभः

उत्थितः कृष्णनिर्भुक्त सपद्याहतपाप्मनः ३४

पूतना लोकबालघ्नी राक्षसी रुधिराशना

जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ३५

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने

यच्छन्प्रियतमं किं नु रक्तास्तन्मातरो यथा ३६

पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः

अङ्गं यस्याः समाक्रम्य भगवानपि तत्स्तनम् ३७

यातुधान्यपि सा स्वर्गमवाप जननीगतिम्

कृष्णभुक्तस्तनक्षीराः किमु गावोऽनुमातरः ३८

पयांसि यासामपिबत्पुत्रस्नेहस्नुतान्यलम्

भगवान्देवकीपुत्रः कैवल्याद्यखिलप्रदः ३९

तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम्

न पुनः कल्पते राजन्संसारोऽज्ञानसम्भवः ४०

कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः

किमिदं कुत एवेति वदन्तो व्रजमाययुः ४१

ते तत्र वर्णितं गोपैः पूतनागमनादिकम्

श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन्सुविस्मिताः ४२

नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः

मूर्ध्न्यर्युपाघ्राय परमां मुदं लेभे कुरूद्वह ४३

य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम्

शृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ४४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः