अथाष्टात्रिंशोऽध्यायः

श्रीशुक उवाच

अक्रूरोऽपि च तां रात्रिं मधुपुर्यां महामतिः

उषित्वा रथमास्थाय प्रययौ नन्दगोकुलम् १

गच्छन्पथि महाभागो भगवत्यम्बुजेक्षणे

भक्तिं परामुपगत एवमेतदचिन्तयत् २

किं मयाचरितं भद्रं किं तप्तं परमं तपः

किं वाथाप्यर्हते दत्तं यद्द्रक्ष्याम्यद्य केशवम् ३

ममैतद्दुर्लभं मन्य उत्तमःश्लोकदर्शनम्

विषयात्मनो यथा ब्रह्म कीर्तनं शूद्र जन्मनः ४

मैवं ममाधमस्यापि स्यादेवाच्युतदर्शनम्

ह्रियमाणः कलनद्या क्वचित्तरति कश्चन ५

ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः

यन्नमस्ये भगवतो योगिध्येयान्घ्रिपङ्कजम् ६

कंसो बताद्याकृत मेऽत्यनुग्रहं द्र क्ष्येऽङ्घ्रिपद्मं प्रहितोऽमुना हरेः

कृतावतारस्य दुरत्ययं तमः पूर्वेऽतरन्यन्नखमण्डलत्विषा ७

यदर्चितं ब्रह्मभवादिभिः सुरैः

श्रिया च देव्या मुनिभिः ससात्वतैः

गोचारणायानुचरैश्चरद्वने

यद्गोपिकानां कुचकुङ्कुमाङ्कितम् ८

द्र क्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम्

मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ९

अप्यद्य विष्णोर्मनुजत्वमीयुषो भारावताराय भुवो निजेच्छया

लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात्फलमञ्जसा दृशः १०

य ईक्षिताहंरहितोऽप्यसत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः

स्वमाययात्मन्रचितैस्तदीक्षया प्राणाक्षधीभिः सदनेष्वभीयते ११

यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः

प्राणन्ति शुम्भन्ति पुनन्ति वै जगत्यास्तद्विरक्ताः शवशोभना मताः १२

स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत्

यशो वितन्वन्व्रज आस्त ईश्वरो गायन्ति देवा यदशेषमङ्गलम् १३

तं त्वद्य नूनं महतां गतिं गुरुं

त्रैलोक्यकान्तं दृशिमन्महोत्सवम्

रूपं दधानं श्रिय ईप्सितास्पदं

द्र क्ष्ये ममासन्नुषसः सुदर्शनाः १४

अथावरूढः सपदीशयो रथात्प्रधानपुंसोश्चरणं स्वलब्धये

धिया धृतं योगिभिरप्यहं ध्रुवं नमस्य आभ्यां च सखीन्वनौकसः १५

अप्यङ्घ्रिमूले पतितस्य मे विभुः

शिरस्यधास्यन्निजहस्तपङ्कजम्

दत्ताभयं कालभुजाङ्गरंहसा

प्रोद्वेजितानां शरणैषिणां णृनाम् १६

समर्हणं यत्र निधाय कौशिकस्तथा बलिश्चाप जगत्त्रयेन्द्र ताम्

यद्वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्यपानुदत् १७

न मय्युपैष्यत्यरिबुद्धिमच्युतः

कंसस्य दूतः प्रहितोऽपि विश्वदृक्

योऽन्तर्बहिश्चेतस एतदीहितं

क्षेत्रज्ञ ईक्षत्यमलेन चक्षुषा १८

अप्यङ्घ्रिमूलेऽवहितं कृताञ्जलिं

मामीक्षिता सस्मितमार्द्र या दृशा

सपद्यपध्वस्तसमस्तकिल्बिषो

वोढा मुदं वीतविशङ्क ऊर्जिताम् १९

सुहृत्तमं ज्ञातिमनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यतेऽथ माम्

आत्मा हि तीर्थीक्रियते तदैव मे बन्धश्च कर्मात्मक उच्छ्वसित्यतः २०

लब्ध्वाङ्गसङ्गम्प्रणतम्कृताञ्जलिं

मां वक्ष्यतेऽक्रूर ततेत्युरुश्रवाः

तदा वयं जन्मभृतो महीयसा

नैवादृतो यो धिगमुष्य जन्म तत् २१

न तस्य कश्चिद्दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा

तथापि भक्तान्भजते यथा तथा सुरद्रुमो यद्वदुपाश्रितोऽर्थदः २२

किं चाग्रजो मावनतं यदूत्तमः स्मयन्परिष्वज्य गृहीतमञ्जलौ

गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु २३

श्रीशुक उवाच

इति सञ्चिन्तयन्कृष्णं श्वफल्कतनयोऽध्वनि

रथेन गोकुलं प्राप्तः सूर्यश्चास्तगिरिं नृप २४

पदानि तस्याखिललोकपाल किरीटजुष्टामलपादरेणोः

ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्यब्जयवाङ्कुशाद्यैः २५

तद्दर्शनाह्लादविवृद्धसम्भ्रमः

प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः

रथादवस्कन्द्य स तेष्वचेष्टत

प्रभोरमून्यङ्घ्रिरजांस्यहो इति २६

देहंभृतामियानर्थो हित्वा दम्भं भियं शुचम्

सन्देशाद्यो हरेर्लिङ्ग दर्शनश्रवणादिभिः २७

ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ

पीतनीलाम्बरधरौ शरदम्बुरहेक्षणौ २८

किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ

सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ २९

ध्वजवज्राङ्कुशाम्भोजैश्चिह्नितैरङ्घ्रिभिर्व्रजम्

शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ३०

उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ

पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ३१

प्रधानपुरुषावाद्यौ जगद्धेतू जगत्पती

अवतीर्णौ जगत्यर्थे स्वांशेन बलकेशवौ ३२

दिशो वितिमिरा राजन्कुर्वाणौ प्रभया स्वया

यथा मारकतः शैलो रौप्यश्च कनकाचितौ ३३

रथात्तूर्णमवप्लुत्य सोऽक्रूरः स्नेहविह्वलः

पपात चरणोपान्ते दण्डवद्रा मकृष्णयोः ३४

भगवद्दर्शनाह्लाद बाष्पपर्याकुलेक्षणः

पुलकचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप ३५

भगवांस्तमभिप्रेत्य रथाङ्गाङ्कितपाणिना

परिरेभेऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ३६

सङ्कर्षणश्च प्रणतमुपगुह्य महामनाः

गृहीत्वा पाणिना पाणी अनयत्सानुजो गृहम् ३७

पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम्

प्रक्षाल्य विधिवत्पादौ मधुपर्कार्हणमाहरत् ३८

निवेद्य गां चातिथये संवाह्य श्रान्तमाडृतः

अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद्विभुः ३९

तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित्

मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात्पुनः ४०

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे

कंसे जीवति दाशार्ह सौनपाला इवावयः ४१

योऽवधीत्स्वस्वसुस्तोकान्क्रोशन्त्या असुतृप्खलः

किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे ४२

इत्थं सूनृतया वाचा नन्देन सुसभाजितः

अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम् ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धेऽक्रूरागमनं नामाष्टात्रिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः