अथ द्विचत्वारिंशोऽध्यायः

श्रीशुक उवाच

अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम्

विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन्रसप्रदः १

का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः

देह्यावयोरङ्गविलेपमुत्तमं श्रेयस्ततस्ते न चिराद्भविष्यति २

सैरन्ध्र्युवाच

दास्यस्म्यहं सुन्दर कंससम्मता

त्रिवक्रनामा ह्यनुलेपकर्मणि

मद्भावितं भोजपतेरतिप्रियं

विना युवां कोऽन्यतमस्तदर्हति ३

रूपपेशलमाधुर्य हसितालापवीक्षितैः

धर्षितात्मा ददौ सान्द्र मुभयोरनुलेपनम् ४

ततस्तावङ्गरागेण स्ववर्णेतरशोभिना

सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ५

प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम्

ऋज्वीं कर्तुं मनश्चक्रे दर्शयन्दर्शने फलम् ६

पद्भ्यामाक्रम्य प्रपदे द्र य्ङ्गुल्युत्तानपाणिना

प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युतः ७

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा

मुकुन्दस्पर्शनात्सद्यो बभूव प्रमदोत्तमा ८

ततो रूपगुणौदार्य सम्पन्ना प्राह केशवम्

उत्तरीयान्तमकृष्य स्मयन्ती जातहृच्छया ९

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे

त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ १०

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः

मुखं वीक्ष्यानु गोपानां प्रहसंस्तामुवाच ह ११

एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम्

साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम् १२

विसृज्य माध्व्या वाण्या ताम्व्रजन्मार्गे वणिक्पथैः

नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः १३

तद्दर्शनस्मरक्षोभादात्मानं नाविदन्स्त्रियः

विस्रस्तवासःकवर वलया लेख्यमूर्तयः १४

ततः पौरान्पृच्छमानो धनुषः स्थानमच्युतः

तस्मिन्प्रविष्टो ददृशे धनुरैन्द्र मिवाद्भुतम् १५

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत्

वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे १६

करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम्

नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः १७

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः

पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् १८

तद्र क्षिणः सानुचरं कुपिता आततायिनः

गृहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति १९

अथ तान्दुरभिप्रायान्विलोक्य बलकेशवौ

क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः २०

बलं च कंसप्रहितं हत्वा शालामुखात्ततः

निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः २१

तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः

तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ २२

तयोर्विचरतोः स्वैरमादित्योऽस्तमुपेयिवान्

कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः २३

गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन्

सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान्नु भजतश्चकमेऽयनं श्रीः २४

अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम्

ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् २५

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च

वधं निशम्य गोविन्द रामविक्रीडितं परम् २६

दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः

बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च २७

अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि

असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा २८

छिद्र प्रतीतिश्छायायां प्राणघोषानुपश्रुतिः

स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् २९

स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम्

यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बरः ३०

अन्यानि चेत्थंभूतानि स्वप्नजागरितानि च

पश्यन्मरणसन्त्रस्तो निद्रां! लेभे न चिन्तया ३१

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते

कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ३२

आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे

मञ्चाश्चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ३३

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः

यथोपजोषं विविशू राजानश्च कृतासनाः ३४

कंसः परिवृतोऽमात्यै राजमञ्च उपाविशत्

मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ३५

वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च

मल्लाः स्वलङ्कृताः दृप्ताः सोपाध्यायाः समासत ३६

चाणूरो मुष्टिकः कूतः शलस्तोशल एव च

त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिताः ३७

नन्दगोपादयो गोपा भोजराजसमाहुताः

निवेदितोपायनास्त एकस्मिन्मञ्च आविशन् ३८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः