श्रीराधाकृष्णाभ्यां नमः

श्रीमद्भागवतमहापुराणम्

 

सप्तमः स्कन्धः

 

अथ प्रथमोऽध्यायः

श्रीराजोवाच

समः प्रियः सुहृद्ब्रह्मन्भूतानां भगवान्स्वयम्

इन्द्र स्यार्थे कथं दैत्यानवधीद्विषमो यथा १

न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः

नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि २

इति नः सुमहाभाग नारायणगुणान्प्रति

संशयः सुमहान्जातस्तद्भवांश्छेत्तुमर्हति ३

श्रीऋषिरुवाच

साधु पृष्टं महाराज हरेश्चरितमद्भुतम्

यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ४

गीयते परमं पुण्यमृषिभिर्नारदादिभिः

नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ५

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृतेः परः

स्वमायागुणमाविश्य बाध्यबाधकतां गतः ६

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः

न तेषां युगपद्रा जन्ह्रास उल्लास एव वा ७

जयकाले तु सत्त्वस्य देवर्षीन्रजसोऽसुरान्

तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ८

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते

विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ९

यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया

सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ १०

कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत्

य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः

तत्प्रत्यनीकानसुरान्सुरप्रियो रजस्तमस्कान्प्रमिणोत्युरुश्रवाः ११

अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा

प्रीत्या महाक्रतौ राजन्पृच्छतेऽजातशत्रवे १२

दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ

वासुदेवे भगवति सायुज्यं चेदिभूभुजः १३

तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ

पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् १४

श्रीयुधिष्ठिर उवाच

अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि

वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः १५

एतद्वेदितुमिच्छामः सर्व एव वयं मुने

भगवन्निन्दया वेनो द्विजैस्तमसि पातितः १६

दमघोषसुतः पाप आरभ्य कलभाषणात्

सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः १७

शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम्

श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः १८

कथं तस्मिन्भगवति दुरवग्राह्यधामनि

पश्यतां सर्वलोकानां लयमीयतुरञ्जसा १९

एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना

ब्रूह्येतदद्भुततमं भगवान्ह्यत्र कारणम् २०

श्रीबादरायणिरुवाच

राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषिः

तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः २१

श्रीनारद उवाच

निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम्

प्रधानपरयो राजन्नविवेकेन कल्पितम् २२

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा

वैषम्यमिह भूतानां ममाहमिति पार्थिव २३

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वधः

तथा न यस्य कैवल्यादभिमानोऽखिलात्मनः

परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते २४

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा

स्नेहात्कामेन वा युञ्ज्यात्कथञ्चिन्नेक्षते पृथक् २५

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात्

न तथा भक्तियोगेन इति मे निश्चिता मतिः २६

कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन्

संरम्भभययोगेन विन्दते तत्स्वरूपताम् २७

एवं कृष्णे भगवति मायामनुज ईश्वरे

वैरेण पूतपाप्मानस्तमापुरनुचिन्तया २८

कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः

आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः २९

गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः

सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ३०

कतमोऽपि न वेनः स्यात्पञ्चानां पुरुषं प्रति

तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ३१

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव

पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ३२

श्रीयुधिष्ठिर उवाच

कीदृशः कस्य वा शापो हरिदासाभिमर्शनः

अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ३३

देहेन्द्रि यासुहीनानां वैकुण्ठपुरवासिनाम्

देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ३४

श्रीनारद उवाच

एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया

सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ३५

पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः

दिग्वाससः शिशून्मत्वा द्वाःस्थौ तान्प्रत्यषेधताम् ३६

अशपन्कुपिता एवं युवां वासं न चार्हथः

रजस्तमोभ्यां रहिते पादमूले मधुद्विषः

पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ३७

एवं शप्तौ स्वभवनात्पतन्तौ तौ कृपालुभिः

प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ३८

जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ

हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ३९

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा

हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ४०

हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम्

जिघांसुरकरोन्नाना यातना मृत्युहेतवे ४१

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम्

भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ४२

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ

रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ४३

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये

रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ४४

तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव

अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ४५

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम्

नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ४६

श्रीयुधिष्ठिर उवाच

विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि

ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ४७

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरितोपक्रमे प्रथमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः