अथ चतुर्थोऽध्यायः

श्रीशुक उवाच

कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप

कथितो युगमानं च शृणु कल्पलयावपि १

चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते

स कल्पो यत्र मनवश्चतुर्दश विशाम्पते २

तदन्ते प्रलयस्तावान्ब्राह्मी रात्रिरुदाहृता

त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ३

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक्

शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभूः ४

द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः

तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ५

एष प्राकृतिको राजन्प्रलयो यत्र लीयते

अण्डकोषस्तु सङ्घातो विघाट उपसादिते ६

पर्जन्यः शतवर्षाणि भूमौ राजन्न वर्षति

तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः ७

सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति ८

ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः

दहत्यनिलवेगोत्थः शून्यान्भूविवरानथ ९

उपर्यधः समन्ताच्च शिखाभिर्वह्निसूर्ययोः

दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् १०

ततः प्रचण्डपवनो वर्षाणामधिकं शतम्

परः सांवर्तको वाति धूम्रं खं रजसावृतम् ११

ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकशः

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः १२

तत एकोदकं विश्वं

ब्रह्माण्डविवरान्तरम् १३

तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे

ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते १४

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसाः

ग्रसते तेजसो रूपं वायुस्तद्र हितं तदा १५

लीयते चानिले तेजो वायोः खं ग्रसते गुणम्

स वै विशति खं राजंस्ततश्च नभसो गुणम् १६

शब्दं ग्रसति भूतादिर्नभस्तमनु लीयते

तैजसश्चेन्द्रि याण्यङ्ग देवान्वैकारिको गुणैः १७

महान्ग्रसत्यहङ्कारं गुणाः सत्त्वादयश्च तम्

ग्रसतेऽव्याकृतं राजन्गुणान्कालेन चोदितम् १८

न तस्य कालावयवैः परिणामादयो गुणाः

अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् १९

न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी

न प्राणबुद्धीन्द्रि यदेवता वा न सन्निवेशः खलु लोककल्पः २०

न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः

संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति २१

लयः प्राकृतिको ह्येष पुरुषाव्यक्तयोर्यदा

शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः २२

बुद्धीन्द्रि यार्थरूपेण ज्ञानं भाति तदाश्रयम्

दृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् २३

दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग्भवेत्

एवं धीः खानि मात्राश्च न स्युरन्यतमादृतात् २४

बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति चोच्यते

मायामात्रमिदं राजन्नानात्वं प्रत्यगात्मनि २५

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च

ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् २६

सत्यं ह्यवयवः प्रोक्तः सर्वावयविनामिह

विनार्थेन प्रतीयेरन्पटस्येवाङ्ग तन्तवः २७

यत्सामान्यविशेषाभ्यामुपलभ्येत स भ्रमः

अन्योन्यापाश्रयात्सर्वमाद्यन्तवदवस्तु यत् २८

विकारः ख्यायमानोऽपि प्रत्यगात्मानमन्तरा

न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत् २९

न हि सत्यस्य नानात्वमविद्वान्यदि मन्यते

नानात्वं छिद्र योर्यद्वज्ज्योतिषोर्वातयोरिव ३०

यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर्व्यवहारवर्त्मसु

एवं वचोभिर्भगवानधोक्षजो व्याख्यायते लौकिकवैदिकैर्जनैः ३१

यथा घनोऽर्कप्रभवोऽर्कदर्शितो

ह्यर्कांशभूतस्य च चक्षुषस्तमः

एवं त्वहं ब्रह्मगुणस्तदीक्षितो

ब्रह्मांशकस्यात्मन आत्मबन्धनः ३२

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा

यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ३३

यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम्

छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ३४

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप

उत्पत्तिप्रलयावेके सूक्ष्मज्ञाः सम्प्रचक्षते ३५

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा

परिणामिनां अवस्थास्ता जन्मप्रलयहेतवः ३६

अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना

अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव ३७

नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लयः

आत्यन्तिकश्च कथितः कालस्य गतिरीदृशी ३८

एताः कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याखिलसत्त्वधाम्नः

लीलाकथास्ते कथिताः समासतः कार्त्स्न्येन नाजोऽप्यभिधातुमीशः ३९

संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्

नान्यः प्लवो भगवतः पुरुषोत्तमस्य

लीलाकथारसनिषेवणमन्तरेण

पुंसो भवेद्विविधदुःखदवार्दितस्य ४०

पुराणसंहितामेतामृषिर्नारायणोऽव्ययः

नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ४१

स वै मह्यं महाराज भगवान्बादरायणः

इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ४२

इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये

दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ४३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे चतुर्थोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः