अथ त्रिसप्ततितमोऽध्यायः

श्रीशुक उवाच

अयुते द्वे शतान्यष्टौ निरुद्धा युधि निर्जिताः

ते निर्गता गिरिद्रो ण्यां मलिना मलवाससः १

क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः

ददृशुस्ते घनश्यामं पीतकौशेयवाससम् २

श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम्

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ३

पद्महस्तं गदाशङ्ख रथाङ्गैरुपलक्षितम्

किरीटहारकटक कटिसूत्राङ्गदाञ्चितम् ४

भ्राजद्वरमणिग्रीवं निवीतं वनमालया

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ५

जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः

प्रणेमुर्हतपाप्मानो मूर्धभिः पादयोर्हरेः ६

कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः

प्रशशंसुर्हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ७

राजान ऊचुः

नमस्ते देवदेवेश प्रपन्नार्तिहराव्यय

प्रपन्नान्पाहि नः कृष्ण निर्विण्णान्घोरसंसृतेः ८

नैनं नाथानुसूयामो मागधं मधुसूदन

अनुग्रहो यद्भवतो राज्ञां राज्यच्युतिर्विभो ९

राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः

त्वन्मायामोहितोऽनित्या मन्यते सम्पदोऽचलाः १०

मृगतृष्णां यथा बाला मन्यन्त उदकाशयम्

एवं वैकारिकीं मायामयुक्ता वस्तु चक्षते ११

वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः

घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस्त्वाविगणय्य दुर्मदाः १२

त एव कृष्णाद्य गभीररंहसा दुरन्तेवीर्येण विचालिताः श्रियः

कालेन तन्वा भवतोऽनुकम्पया विनष्टदर्पाश्चरणौ स्मराम ते १३

अथो न राज्यम्मृगतृष्णिरूपितं देहेन शश्वत्पतता रुजां भुवा

उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् १४

तं नः समादिशोपायं येन ते चरणाब्जयोः

स्मृतिर्यथा न विरमेदपि संसरतामिह १५

कृष्णाय वासुदेवाय हरये परमात्मने

प्रणतक्लेशनाशाय गोविन्दाय नमो नमः १६

श्रीशुक उवाच

संस्तूयमानो भगवान्राजभिर्मुक्तबन्धनैः

तानाह करुणस्तात शरण्यः श्लक्ष्णया गिरा १७

श्रीभगवानुवाच

अद्य प्रभृति वो भूपा मय्यात्मन्यखिलेश्वरे

सुदृढा जायते भक्तिर्बाढमाशंसितं तथा १८

दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः

श्रीयैश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् १९

हैहयो नहुषो वेणो रावणो नरकोऽपरे

श्रीमदाद्भ्रशिताः स्थानाद्देवदैत्यनरेश्वराः २०

भवन्त एतद्विज्ञाय देहाद्युत्पाद्यमन्तवत्

मां यजन्तोऽध्वरैर्युक्ताः प्रजा धर्मेण रक्ष्यथ २१

सन्तन्वन्तः प्रजातन्तून्सुखं दुःखं भवाभवौ

प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ २२

उदासीनाश्च देहादावात्मारामा धृतव्रताः

मय्यावेश्य मनः सम्यङ्मामन्ते ब्रह्म यास्यथ २३

श्रीशुक उवाच

इत्यादिश्य नृपान्कृष्णो भगवान्भुवनेश्वरः

तेषां न्ययुङ्क्त पुरुषान्स्त्रियो मज्जनकर्मणि २४

सपर्यां कारयामास सहदेवेन भारत

नरदेवोचितैर्वस्त्रैर्भूषणैः स्रग्विलेपनैः २५

भोजयित्वा वरान्नेन सुस्नातान्समलङ्कृतान्

भोगैश्च विविधैर्युक्तांस्ताम्बूलाद्यैर्नृपोचितैः २६

ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः

विरेजुर्मोचिताः क्लेशात्प्रावृडन्ते यथा ग्रहाः २७

रथान्सदश्वानारोप्य मणिकाञ्चनभूषितान्

प्रीणय्य सुनृतैर्वाक्यैः स्वदेशान्प्रत्ययापयत् २८

त एवं मोचिताः कृच्छ्रात्कृष्णेन सुमहात्मना

ययुस्तमेव ध्यायन्तः कृतानि च जगत्पतेः २९

जगदुः प्रकृतिभ्यस्ते महापुरुषचेष्टितम्

यथान्वशासद्भगवांस्तथा चक्रुरतन्द्रि ताः ३०

जरासन्धं घातयित्वा भीमसेनेन केशवः

पार्थाभ्यां संयुतः प्रायात्सहदेवेन पूजितः ३१

गत्वा ते खाण्डवप्रस्थं शङ्खान्दध्मुर्जितारयः

हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ३२

तच्छ्रुत्वा प्रीतमनस इन्द्र प्रस्थनिवासिनः

मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ३३

अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः

सर्वमाश्रावयां चक्रुरात्मना यदनुष्ठितम् ३४

निशम्य धर्मराजस्तत्केशवेनानुकम्पितम्

आनन्दाश्रुकलां मुञ्चन्प्रेम्णा नोवाच किञ्चन ३५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने त्रिसप्ततितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः