अथ सप्तदशोऽध्यायः

श्रीशुक उवाच

इत्युक्ता सादिती राजन्स्वभर्त्रा कश्यपेन वै

अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रि ता १

चिन्तयन्त्येकया बुद्ध्या महापुरुषमीश्वरम्

प्रगृह्येन्द्रि यदुष्टाश्वान्मनसा बुद्धिसारथिः २

मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि

वासुदेवे समाधाय चचार ह पयोव्रतम् ३

तस्याः प्रादुरभूत्तात भगवानादिपुरुषः

पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ४

तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम्

ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ५

सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा

बभूव तूष्णीं पुलकाकुलाकृतिस्तद्दर्शनात्युत्सवगात्रवेपथुः ६

प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह

उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ७

श्रीअदितिरुवाच

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद

तीर्थश्रवः श्रवणमङ्गलनामधेय

आपन्नलोकवृजिनोपशमोदयाद्य

शं नः कृधीश भगवन्नसि दीननाथः ८

विश्वाय विश्वभवनस्थितिसंयमाय

स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने

स्वस्थाय शश्वदुपबृंहितपूर्णबोध

व्यापादितात्मतमसे हरये नमस्ते ९

आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्

द्योभूरसाः सकलयोगगुणास्त्रिवर्गः

ज्ञानं च केवलमनन्त भवन्ति तुष्टात्

त्वत्तो नृणां किमु सपत्नजयादिराशीः १०

श्रीशुक उवाच

अदित्यैवं स्तुतो राजन्भगवान्पुष्करेक्षणः

क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ११

श्रीभगवानुवाच

देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम्

यत्सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः १२

तान्विनिर्जित्य समरे दुर्मदानसुरर्षभान्

प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्युपासितुम् १३

इन्द्र ज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम्

स्त्रियो रुदन्तीरासाद्य द्र ष्टुमिच्छसि दुःखिताः १४

आत्मजान्सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः

नाकपृष्ठमधिष्ठाय क्रीडतो द्र ष्टुमिच्छसि १५

प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मतिः

यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति १६

अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते

ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् १७

त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः

स्वांशेन पुत्रत्वमुपेत्य ते सुतान्गोप्तास्मि मारीचतपस्यधिष्ठितः १८

उपधाव पतिं भद्रे प्रजापतिमकल्मषम्

मां च भावयती पत्यावेवं रूपमवस्थितम् १९

नैतत्परस्मा आख्येयं पृष्टयापि कथञ्चन

सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् २०

श्रीशुक उवाच

एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत

अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः २१

उपाधावत्पतिं भक्त्या परया कृतकृत्यवत्

स वै समाधियोगेन कश्यपस्तदबुध्यत २२

प्रविष्टमात्मनि हरेरंशं ह्यवितथेक्षणः

सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम्

अमाहितमना राजन्दारुण्यग्निं यथानिलः २३

अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम्

हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः २४

श्रीब्रह्मोवाच

जयोरुगाय भगवन्नुरुक्रम नमोऽस्तु ते

नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः २५

नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे

त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे २६

त्वमादिरन्तो भुवनस्य मध्यमनन्तशक्तिं पुरुषं यमाहुः

कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् २७

त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः

दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु २८

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः