अथ षष्ठोऽध्यायः

श्रीशुक उवाच

अथ ब्रह्मात्मजैः देवैः प्रजेशैरावृतोऽभ्यगात्

भवश्च भूतभव्येशो ययौ भूतगणैर्वृतः १

इन्द्रो मरुद्भिर्भगवानादित्या वसवोऽश्विनौ

ऋभवोऽङ्गिरसो रुद्रा विश्वे साध्याश्च देवताः २

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः

ऋषयः पितरश्चैव सविद्याधरकिन्नराः ३

द्वारकामुपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः

वपुषा येन भगवान्नरलोकमनोरमः

यशो वितेने लोकेषु सर्वलोकमलापहम् ४

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः

व्यचक्षतावितृप्ताक्षाः कृष्णमद्भुतदर्शनम् ५

स्वर्गोद्यानोपगैर्माल्यैश्छादयन्तो युदूत्तमम्

गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ६

श्रीदेवा ऊचुः

नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रि यप्राणमनोवचोभिः

यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् ७

त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं

व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः

नैतैर्भवानजित कर्मभिरज्यते वै

यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवद्यः ८

शुद्धिर्नृणां न तु तथेड्य दुराशयानां

विद्याश्रुताध्ययनदानतपःक्रियाभिः

सत्त्वात्मनामृषभ ते यशसि प्रवृद्ध

सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ९

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः

क्षेमाय यो मुनिभिरार्द्र हृदोह्यमानः

यः सात्वतैः समविभूतय आत्मवद्भिर्

व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय १०

यस्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ

त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा

अध्यात्मयोग उत योगिभिरात्ममायां

जिज्ञासुभिः परमभागवतैः परीष्टः ११

पर्युष्टया तव विभो वनमालयेयं

संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः

यः सुप्रणीतममुयार्हणमाददन्नो

भूयात्सदाङ्घ्रिरशुभाशयधूमकेतुः १२

केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको

यस्ते भयाभयकरोऽसुरदेवचम्वोः

स्वर्गाय साधुषु खलेष्वितराय भूमन्

पदः पुनातु भगवन्भजतामघं नः १३

नस्योतगाव इव यस्य वशे भवन्ति

ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः

कालस्य ते प्रकृतिपूरुषयोः परस्य

शं नस्तनोतु चरणः पुरुषोत्तमस्य १४

अस्यासि हेतुरुदयस्थितिसंयमानाम्

अव्यक्तजीवमहतामपि कालमाहुः

सोऽयं त्रिणाभिरखिलापचये प्रवृत्तः

कालो गभीररय उत्तमपूरुषस्त्वम् १५

त्वत्तः पुमान्समधिगम्य ययास्य वीर्यं

धत्ते महान्तमिव गर्भममोघवीर्यः

सोऽयं तयानुगत आत्मन आण्डकोशं

हैमं ससर्ज बहिरावरणैरुपेतम् १६

तत्तस्थूषश्च जगतश्च भवानधीशो

यन्माययोत्थगुणविक्रिययोपनीतान्

अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो

येऽन्ये स्वतः परिहृतादपि बिभ्यति स्म १७

स्मायावलोकलवदर्शितभावहारि

भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः

पत्न्यस्तु षोडशसहस्रमनङ्गबाणैर्

यस्येन्द्रि यं विमथितुं करणैर्न विभ्व्यः १८

विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्याः

पादावनेजसरितः शमलानि हन्तुम्

आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस्

तीर्थद्वयं शुचिषदस्त उपस्पृशन्ति १९

श्रीबादरायणिरुवाच

इत्यभिष्टूय विबुधैः सेशः शतधृतिर्हरिम्

अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रितः २०

श्रीब्रह्मोवाच

भूमेर्भारावताराय पुरा विज्ञापितः प्रभो

त्वमस्माभिरशेषात्मन्तत्तथैवोपपादितम् २१

धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया

कीर्तिश्च दिक्षु विक्षिप्ता सर्वलोकमलापहा २२

अवतीर्य यदोर्वंशे बिभ्रद्रू पमनुत्तमम्

कर्माण्युद्दामवृत्तानि हिताय जगतोऽकृथाः २३

यानि ते चरितानीश मनुष्याः साधवः कलौ

शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यञ्जसा तमः २४

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम

शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो २५

नाधुना तेऽखिलाधार देवकार्यावशेषितम्

कुलं च विप्रशापेन नष्टप्रायमभूदिदम् २६

ततः स्वधाम परमं विशस्व यदि मन्यसे

सलोकाल्लोकपालान्नः पाहि वैकुण्ठकिङ्करान् २७

श्रीभगवानुवाच

अवधारितमेतन्मे यदात्थ विबुधेश्वर

कृतं वः कार्यमखिलं भूमेर्भारोऽवतारितः २८

तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम्

लोकं जिघृक्षद्रुद्धं मे वेलयेव महार्णवः २९

यद्यसंहृत्य दृप्तानां यदूनां विपुलं कुलम्

गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति ३०

इदानीं नाश आरब्धः कुलस्य द्विजशापजः

यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ ३१

श्रीशुक उवाच

इत्युक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम्

सह देवगणैर्देवः स्वधाम समपद्यत ३२

अथ तस्यां महोत्पातान्द्वारवत्यां समुत्थितान्

विलोक्य भगवानाह यदुवृद्धान्समागतान् ३३

श्रीभगवानुवाच

एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः

शापश्च नः कुलस्यासीद्ब्राह्मणेभ्यो दुरत्ययः ३४

न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः

प्रभासं सुमहत्पुण्यं यास्यामोऽद्यैव मा चिरम् ३५

यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोदुराट्

विमुक्तः किल्बिषात्सद्यो भेजे भूयः कलोदयम् ३६

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन्सुरान्

भोजयित्वोषिजो विप्रान्नानागुणवतान्धसा ३७

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै

वृजिनानि तरिष्यामो दानैर्नौभिरिवार्णवम् ३८

श्रीशुक उवाच

एवं भगवतादिष्टा यादवाः कुरुनन्दन

गन्तुं कृतधियस्तीर्थं स्यन्दनान्समयूयुजन् ३९

तन्निरीक्ष्योद्धवो राजन्श्रुत्वा भगवतोदितम्

दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णमनुव्रतः ४०

विविक्त उपसङ्गम्य जगतामीश्वरेश्वरम्

प्रणम्य शिरिसा पादौ प्राञ्जलिस्तमभाषत ४१

श्रीउद्धव उवाच

देवदेवेश योगेश पुण्यश्रवणकीर्तन

संहृत्यैतत्कुलं नूनं लोकं सन्त्यक्ष्यते भवान्

विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः ४२

नाहं तवाङ्घ्रिकमलं क्षणार्धमपि केशव

त्यक्तुं समुत्सहे नाथ स्वधाम नय मामपि ४३

तव विक्रीडितं कृष्ण नृनां परममङ्गलम्

कर्णपीयूषमासाद्य त्यजन्त्यन्यस्पृहां जनाः ४४

शय्यासनाटनस्थान स्नानक्रीडाशनादिषु

कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेम हि ४५

त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताः

उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ४६

वातवसना य ऋषयः श्रमणा ऊर्ध्रमन्थिनः

ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनोऽमलाः ४७

वयं त्विह महायोगिन्भ्रमन्तः कर्मवर्त्मसु

त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमः ४८

स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च

गत्युत्स्मितेक्षणक्ष्वेलि यन्नृलोकविडम्बनम् ४९

श्रीशुक उवाच

एवं विज्ञापितो राजन्भगवान्देवकीसुतः

एकान्तिनं प्रियं भृत्यमुद्धवं समभाषत ५०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे षष्ठोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः