अथैकादशोऽध्यायः

श्रीशुक उवाच

गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम्

तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः १

भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ

बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् २

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम्

कस्येदं कुत आश्चर्यमुत्पात इति कातराः ३

बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम्

विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ४

न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत्

बालस्योत्पाटनं तर्वोः केचित्सन्दिग्धचेतसः ५

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम्

विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ६

गोपीभिः स्तोभितोऽनृत्यद्भगवान्बालवत्क्वचित्

उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ७

बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम्

बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ८

दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम्

व्रजस्योवाह वै हर्षं भगवान्बालचेष्टितैः ९

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः

फलार्थी धान्यमादाय ययौ सर्वफलप्रदः १०

फलविक्रयिणी तस्य च्युतधान्यकरद्वयम्

फलैरपूरयद्र त्नैः फलभाण्डमपूरि च ११

सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत्

रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् १२

नोपेयातां यदाहूतौ क्रीडासङ्गेन पुत्रकौ

यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् १३

क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम्

यशोदाजोहवीत्कृष्णं पुत्रस्नेहस्नुतस्तनी १४

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब

अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक १५

हे रामागच्छ ताताशु सानुजः कुलनन्दन

प्रातरेव कृताहारस्तद्भवान्भोक्तुमर्हति १६

प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः

एह्यावयोः प्रियं धेहि स्वगृहान्यात बालकाः १७

धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह

जन्मर्क्षं तेऽद्य भवति विप्रेभ्यो देहि गाः शुचिः १८

पश्य पश्य वयस्यांस्ते मातृमृष्टान्स्वलङ्कृतान्

त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः १९

इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप

हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् २०

श्रीशुक उवाच

गोपवृद्धा महोत्पाताननुभूय बृहद्वने

नन्दादयः समागम्य व्रजकार्यममन्त्रयन् २१

तत्रोपानन्दनामाह गोपो ज्ञानवयोऽधिकः

देशकालार्थतत्त्वज्ञः प्रियकृद्रा मकृष्णयोः २२

उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः

आयान्त्यत्र महोत्पाता बालानां नाशहेतवः २३

मुक्तः कथञ्चिद्रा क्षस्या बालघ्न्या बालको ह्यसौ

हरेरनुग्रहान्नूनमनश्चोपरि नापतत् २४

चक्रवातेन नीतोऽयं दैत्येन विपदं वियत्

शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः २५

यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः

असावन्यतमो वापि तदप्यच्युतरक्षणम् २६

यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः

तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः २७

वनं वृन्दावनं नाम पशव्यं नवकाननम्

गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् २८

तत्तत्राद्यैव यास्यामः शकटान्युङ्क्त मा चिरम्

गोधनान्यग्रतो यान्तु भवतां यदि रोचते २९

तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः

व्रजान्स्वान्स्वान्समायुज्य ययू रूढपरिच्छदाः ३०

वृद्धान्बालान्स्त्रियो राजन्सर्वोपकरणानि च

अनःस्वारोप्य गोपाला यत्ता आत्तशरासनाः ३१

गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः

तूर्यघोषेण महता ययुः सहपुरोहिताः ३२

गोप्यो रूढरथा नूत्न कुचकुङ्कुमकान्तयः

कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ३३

तथा यशोदारोहिण्यावेकं शकटमास्थिते

रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ३४

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम्

तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्र वत् ३५

वृन्दावनं गोवर्धनं यमुनापुलिनानि च

वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ३६

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः

कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ३७

अविदूरे व्रजभुवः सह गोपालदारकैः

चारयामासतुर्वत्सान्नानाक्रीडापरिच्छदौ ३८

क्वचिद्वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित्

क्वचित्पादैः किङ्किणीभिः क्वचित्कृत्रिमगोवृषैः ३९

वृषायमाणौ नर्दन्तौ युयुधाते परस्परम्

अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा ४०

कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः

वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ४१

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः

दर्शयन्बलदेवाय शनैर्मुग्ध इवासदत् ४२

गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः

भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम्

स कपित्थैर्महाकायः पात्यमानैः पपात ह ४३

तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति

देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ४४

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ

सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः ४५

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा

गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ४६

ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम्

तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् ४७

स वै बको नाम महानसुरो बकरूपधृक्

आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ४८

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः

बभूवुरिन्द्रि याणीव विना प्राणं विचेतसः ४९

तं तालुमूलं प्रदहन्तमग्निवद्गोपालसूनुं पितरं जगद्गुरोः

चच्छर्द सद्योऽतिरुषाक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत ५०

तमापतन्तं स निगृह्य तुण्डयोर्दोर्भ्यां बकं कंससखं सतां पतिः

पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद्दिवौकसाम् ५१

तदा बकारिं सुरलोकवासिनः समाकिरन्नन्दनमल्लिकादिभिः

समीडिरे चानकशङ्खसंस्तवैस्तद्वीक्ष्य गोपालसुता विसिस्मिरे ५२

मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवेन्द्रि यो गणः

स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान्व्रजमेत्य तज्जगुः ५३

श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः

प्रेत्यागतमिवोत्सुक्यादैक्षन्त तृषितेक्षणाः ५४

अहो बतास्य बालस्य बहवो मृत्यवोऽभवन्

अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् ५५

अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः

जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ५६

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित्

गर्गो यदाह भगवानन्वभावि तथैव तत् ५७

इति नन्दादयो गोपाः कृष्णरामकथां मुदा

कुर्वन्तो रममाणाश्च नाविन्दन्भववेदनाम् ५८

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ५९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वत्सबकवधो नामैकादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः