अथाष्टादशोऽध्यायः

श्रीशुक उवाच

अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः

अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् १

व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया

ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् २

स च वृन्दावनगुणैर्वसन्त इव लक्षितः

यत्रास्ते भगवान्साक्षाद्रा मेण सह केशवः ३

यत्र निर्झरनिर्ह्राद निवृत्तस्वनझिल्लिकम्

शश्वत्तच्छीकरर्जीष द्रुममण्डलमण्डितम् ४

सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा

न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ५

अगाधतोयह्रदिनीतटोर्मिभिर्द्र वत्पुरीष्याः पुलिनैः समन्ततः

न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ६

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम्

गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ७

क्रीडिष्यमाणस्तत्क्र्ष्णो भगवान्बलसंयुतः

वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत् ८

प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः

रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ९

कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन्

वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे १०

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ

ईडिरे कृष्णरामौ च नटा इव नटं नृप ११

भ्रमणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः

चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् १२

क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम्

शशंसतुर्महाराज साधु साध्विति वादिनौ १३

क्वचिद्बिल्वैः क्वचित्कुम्भैः क्वचामलकमुष्टिभिः

अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया १४

क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः

कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया १५

एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने

नद्यद्रि द्रो णिकुञ्जेषु काननेषु सरःसु च १६

पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः

गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया १७

तं विद्वानपि दाशार्हो भगवान्सर्वदर्शनः

अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् १८

तत्रोपाहूय गोपालान्कृष्णः प्राह विहारवित्

हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् १९

तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ

कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे २०

आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः

यत्रारोहन्ति जेतारो वहन्ति च पराजिताः २१

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम्

भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः २२

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः

क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप २३

उवाह कृष्णो भगवान्श्रीदामानं पराजितः

वृषभं भद्र सेनस्तु प्रलम्बो रोहिणीसुतम् २४

अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः

वहनं! प्रागादवरोहणतः परम् २५

तमुद्वहन्धरणिधरेन्द्र गौरवं

महासुरो विगतरयो निजं वपुः

स आस्थितः पुरटपरिच्छदो बभौ

तडिद्द्युमानुडुपतिवाडिवाम्बुदः २६

निरीक्ष्य तद्वपुरलमम्बरे चरत्

प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम्

ज्वलच्छिखं कटककिरीटकुण्डल

त्विषाद्भुतं हलधर ईषदत्रसत् २७

अथागतस्मृतिरभयो रिपुं बलो विहाय सार्थमिव हरन्तमात्मनः

रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा २८

स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः

महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः २९

दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना

गोपाः सुविस्मिता आसन्साधु साध्विति वादिनः ३०

आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम्

प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ३१

पापे प्रलम्बे निहते देवाः परमनिर्वृताः

अभ्यवर्षन्बलं माल्यैः शशंसुः साधु साध्विति ३२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः