अथैकोनषष्टितमोऽध्यायः

श्रीराजोवाच

यथा हतो भगवता भौमो येने च ताः स्त्रियः

निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः १

श्रीशुक उवाच

इन्द्रे ण हृतछत्रेण हृतकुण्डलबन्धुना

हृतामराद्रि स्थानेन ज्ञापितो भौमचेष्टितम् २

सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ

गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम्

मुरपाशायुतैर्घोरैर्दृढैः सर्वत आवृतम् ३

गदया निर्बिभेदाद्री न्शस्त्रदुर्गाणि सायकैः

चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना ४

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम्

प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ५

पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम्

मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ६

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः

ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्र वत्तार्क्ष्यसुतं यथोरगः ७

आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः

स रोदसी सर्वदिशोऽम्बरं महानापूरयन्नण्डकटाहमावृणोत् ८

तदापतद्वै त्रिशिखं गरुत्मते हरिः शराभ्यामभिनत्त्रिधोजसा

मुखेषु तं चापि शरैरताडयत्तस्मै गदां सोऽपि रुषा व्यमुञ्चत ९

तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा

उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया १०

व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रि रिवेन्द्र तेजसा

तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः ११

ताम्रोऽन्तरिक्षः श्रवणो विभावसुर्

वसुर्नभस्वानरुणश्च सप्तमः

पीठं पुरस्कृत्य चमूपतिं मृधे

भौमप्रयुक्ता निरगन्धृतायुधाः १२

प्रायुञ्जतासाद्य शरानसीन्गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः

तच्छस्त्रकूटं भगवान्स्वमार्गणैरमोघवीर्यस्तिलशश्चकर्त ह १३

तान्पीठमुख्याननयद्यमक्षयं

निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः

स्वानीकपानच्युतचक्रसायकैस्

तथा निरस्तान्नरको धरासुतः

निरीक्ष्य दुर्मर्षण आस्रवन्मदैर्

गजैः पयोधिप्रभवैर्निराक्रमात् १४

दृष्ट्वा सभार्यं गरुडोपरि स्थितं

सूर्योपरिष्टात्सतडिद्घनं यथा

कृष्णं स तस्मै व्यसृजच्छतघ्नीं

योधाश्च सर्वे युगपच्च विव्यधुः १५

तद्भौमसैन्यं भगवान्गदाग्रजो

विचित्रवाजैर्निशितैः शिलीमुखैः

निकृत्तबाहूरुशिरोध्रविग्रहं

चकार तर्ह्येव हताश्वकुञ्जरम् १६

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह

हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः १७

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्

गुरुत्मता हन्यमानास्तुण्डपक्षनखेर्गजाः १८

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत १९

दृष्ट्वा विद्रा वितं सैन्यं गरुडेनार्दितं स्वकं

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः

नाकम्पत तया विद्धो मालाहत इव द्विपः २०

शूलं भौमोऽच्युतं हन्तुमाददे वितथोद्यमः

तद्विसर्गात्पूर्वमेव नरकस्य शिरो हरिः

अपाहरद्गजस्थस्य चक्रेण क्षुरनेमिना २१

सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितम्समुज्ज्वलम्

ह हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईदिरे २२

ततश्च भूः कृष्णमुपेत्य कुण्डले

प्रतप्तजाम्बूनदरत्नभास्वरे

सवैजयन्त्या वनमालयार्पयत्

प्राचेतसं छत्रमथो महामणिम् २३

अस्तौषीदथ विश्वेशं देवी देववरार्चितम्

प्राञ्जलिः प्रणता राजन्भक्तिप्रवणया धिया २४

भूमिरुवाच

नमस्ते देवदेवेश शङ्खचक्रगदाधर

भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते २५

नमः पङ्कजनाभाय नमः पङ्कजमालिने

नमः पङ्कजनेत्राय नमस्तेपङ्कजाङ्घ्रये २६

नमो भगवते तुभ्यं वासुदेवाय विष्णवे

पुरुषायादिबीजाय पूर्णबोधाय ते नमः २७

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये

परावरात्मन्भूतात्मन्परमात्मन्नमोऽस्तु ते २८

त्वं वै सिसृक्षुरज उत्कटं प्रभो

तमो निरोधाय बिभर्ष्यसंवृतः

स्थानाय सत्त्वं जगतो जगत्पते

कालः प्रधानं पुरुषो भवान्परः २९

अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रि याणि

कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवनयं भ्रमः ३०

तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः

तत्पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम् ३१

श्रीशुक उवाच

इति भूम्यर्थितो वाग्भिर्भगवान्भक्तिनम्रया

दत्त्वाभयं भौमगृहम्प्राविशत्सकलर्द्धिमत् ३२

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम्

भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ३३

तम्प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः

मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम् ३४

भूयात्पतिरयं मह्यं धाता तदनुमोदताम्

इति सर्वाः पृथक्कृष्णे भावेन हृदयं दधुः ३५

ताः प्राहिणोद्द्वारवतीं सुमृष्टविरजोऽम्बराः

नरयानैर्महाकोशान्रथाश्वान्द्र विणं महात् ३६

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः

पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः ३७

गत्वा सुरेन्द्र भवनं दत्त्वादित्यै च कुण्डले

पूजितस्त्रिदशेन्द्रे ण महेन्द्र् याण्या च सप्रियः ३८

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति

आरोप्य सेन्द्रा न्विबुधान्निर्जित्योपानयत्पुरम् ३९

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः

अन्वगुर्भ्रमराः स्वर्गात्तद्गन्धासवलम्पटाः ४०

ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्नच्युतमर्थसाधनम्

सिद्धार्थ एतेन विगृह्यते महानहो सुराणां च तमो धिगाढ्यताम् ४१

अथो मुहूर्त एकस्मिन्नानागारेषु ताः स्त्रियः

यथोपयेमे भगवान्तावद्रू पधरोऽव्ययः ४२

गृहेषु तासामनपाय्यतर्ककृन्निरस्तसाम्यातिशयेष्ववस्थितः

रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन् ४३

इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता

ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्

भेजुर्मुदाविरतमेधितयानुराग

हासावलोकनवसङ्गमजल्पलज्जाः ४४

प्रत्युद्गमासनवरार्हणपदशौच

ताम्बूलविश्रमणवीजनगन्धमाल्यैः

केशप्रसारशयनस्नपनोपहार्यैः

दासीशता अपि विभोर्विदधुः स्म दास्यम् ४५

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नामैकोनषष्टितमोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः