अथ नवमोऽध्यायः

सूत उवाच

इति भीतः प्रजाद्रो हात्सर्वधर्मविवित्सया

ततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् १

तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः

अन्वगच्छन्रथैर्विप्रा व्यासधौम्यादयस्तथा २

भगवानपि विप्रर्षे रथेन सधनञ्जयः

स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः ३

दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम्

प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ४

तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम

राजर्षयश्च तत्रासन्द्र ष्टुं भरतपुङ्गवम् ५

पर्वतो नारदो धौम्यो भगवान्बादरायणः

बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ६

वसिष्ठ इन्द्र प्रमदस्त्रितो गृत्समदोऽसितः

कक्षीवान्गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शनः ७

अन्ये च मुनयो ब्रह्मन्ब्रह्मरातादयोऽमलाः

शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ८

तान्समेतान्महाभागानुपलभ्य वसूत्तमः

पूजयामास धर्मज्ञो देशकालविभागवित् ९

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम्

हृदिस्थं पूजयामास माययोपात्तविग्रहम् १०

पाण्डुपुत्रानुपासीनान्प्रश्रयप्रेमसङ्गतान्

अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ११

अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दनाः

जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः १२

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधूः

युष्मत्कृते बहून्क्लेशान्प्राप्ता तोकवती मुहुः १३

सर्वं कालकृतं मन्ये भवतां च यदप्रियम्

सपालो यद्वशे लोको वायोरिव घनावलिः १४

यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः

कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् १५

न ह्यस्य कर्हिचिद्रा जन्पुमान्वेद विधित्सितम्

यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि १६

तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ

तस्यानुविहितोऽनाथा नाथ पाहि प्रजाः प्रभो १७

एष वै भगवान्साक्षादाद्यो नारायणः पुमान्

मोहयन्मायया लोकं गूढश्चरति वृष्णिषु १८

अस्यानुभावं भगवान्वेद गुह्यतमं शिवः

देवर्षिर्नारदः साक्षाद्भगवान्कपिलो नृप १९

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम्

अकरोः सचिवं दूतं सौहृदादथ सारथिम् २०

सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः

तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् २१

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम्

यन्मेऽसूंस्त्यजतः साक्षात्कृष्णो दर्शनमागतः २२

भक्त्यावेश्य मनो यस्मिन्वाचा यन्नाम कीर्तयन्

त्यजन्कलेवरं योगी मुच्यते कामकर्मभिः २३

स देवदेवो भगवान्प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम्

प्रसन्नहासारुणलोचनोल्लसन्मुखाम्बुजो ध्यानपथश्चतुर्भुजः २४

सूत उवाच

युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे

अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम् २५

पुरुषस्वभावविहितान्यथावर्णं यथाश्रमम्

वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् २६

दानधर्मान्राजधर्मान्मोक्षधर्मान्विभागशः

स्त्रीधर्मान्भगवद्धर्मान्समासव्यासयोगतः २७

धर्मार्थकाममोक्षांश्च सहोपायान्यथा मुने

नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् २८

धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः

यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः २९

तदोपसंहृत्य गिरः सहस्रणीर्विमुक्तसङ्गं मन आदिपूरुषे

कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थितेऽमीलितदृग्व्यधारयत् ३०

विशुद्धा धारणया हताशुभस्तदीक्षयैवाशु गतायुधश्रमः

निवृत्तसर्वेन्द्रि यवृत्तिविभ्रमस्तुष्टाव जन्यं विसृजञ्जनार्दनम् ३१

श्रीभीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि

स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ३२

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ३३

युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये

मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ३४

सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ३५

व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या

कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ३६

स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः

धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः ३७

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान्गतिर्मुकुन्दः ३८

विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये

भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः स्वरूपम् ३९

ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः

कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः ४०

मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम्

अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ४१

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम्

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ४२

सूत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः

आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत् ४३

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले

सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ४४

तत्र दुन्दुभयो नेदुर्देवमानववादिताः

शशंसुः साधवो राज्ञां खात्पेतुः पुष्पवृष्टयः ४५

तस्य निर्हरणादीनि सम्परेतस्य भार्गव

युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितोऽभवत् ४६

तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः

ततस्ते कृष्णहृदयाः स्वाश्रमान्प्रययुः पुनः ४७

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम्

पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ४८

पित्रा चानुमतो राजा वासुदेवानुमोदितः

चकार राज्यं धर्मेण पितृपैतामहं विभुः ४९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्ठिरराज्यप्रलम्भो नाम नवमोऽध्यायः ९

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः