अथ द्वादशोऽध्यायः

श्रीशुक उवाच

क्वचिद्वनाशाय मनो दधद्व्रजात्प्रातः समुत्थाय वयस्यवत्सपान्

प्रबोधयञ्छृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः १

तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः

स्वान्स्वान्सहस्रोपरिसङ्ख्ययान्वितान्वत्सान्पुरस्कृत्य विनिर्ययुर्मुदा २

कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान्

चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ३

फलप्रबालस्तवक सुमनःपिच्छधातुभिः

काचगुञ्जामणिस्वर्ण भूषिता अप्यभूषयन् ४

मुष्णन्तोऽन्योन्यशिक्यादीन्ज्ञातानाराच्च चिक्षिपुः

तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ५

यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम्

अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ६

केचिद्वेणून्वादयन्तो ध्मान्तः शृङ्गाणि केचन

केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ७

विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः

बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ८

विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान्

विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ९

साकं भेकैर्विलङ्घन्तः सरितः स्रवसम्प्लुताः

विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् १०

इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन

मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ११

यत्पादपांसुर्बहुजन्मकृच्छ्रतो

धृतात्मभिर्योगिभिरप्यलभ्यः

स एव यद्दृग्विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टमतो व्रजौकसाम् १२

अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः

नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते १३

दृष्ट्वार्भकान्कृष्णमुखानघासुरः

कंसानुशिष्टः स बकीबकानुजः

अयं तु मे सोदरनाशकृत्तयोर्

द्वयोर्ममैनं सबलं हनिष्ये १४

एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः

प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते १५

इति व्यवस्याजगरं बृहद्वपुः स योजनायाममहाद्रि पीवरम्

धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः १६

धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः

ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः १७

दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम्

व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया १८

अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम्

अस्मत्सङ्ग्रसनव्यात्त व्यालतुण्डायते न वा १९

सत्यमर्ककरारक्तमुत्तराहनुवद्घनम्

अधराहनुवद्रो धस्तत्प्रतिच्छाययारुणम् २०

प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे

तुङ्गशृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत २१

आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति

एषां अन्तर्गतं ध्वान्तमेतदप्यन्तराननम् २२

दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत

तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् २३

अस्मान्किमत्र ग्रसिता निविष्टानयं तथा चेद्बकवद्विनङ्क्ष्यति

क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः २४

इत्थं मिथोऽतथ्यमतज्ज्ञभाषितं

श्रुत्वा विचिन्त्येत्यमृषा मृषायते

रक्षो विदित्वाखिलभूतहृत्स्थितः

स्वानां निरोद्धुं भगवान्मनो दधे २५

तावत्प्रविष्टास्त्वसुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः

प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा २६

तान्वीक्ष्य कृष्णः सकलाभयप्रदो

ह्यनन्यनाथान्स्वकरादवच्युतान्

दीनांश्च मृत्योर्जठराग्निघासान्

घृणार्दितो दिष्टकृतेन विस्मितः २७

कृत्यं किमत्रास्य खलस्य जीवनं

न वा अमीषां च सतां विहिंसनम्

द्वयं कथं स्यादिति संविचिन्त्य

ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः २८

तदा घनच्छदा देवा भयाद्धाहेति चुक्रुशुः

जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः २९

तच्छ्रुत्वा भगवान्कृष्णस्त्वव्ययः सार्भवत्सकम्

चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ३०

ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः

पूर्णोऽन्तरङ्गे पवनो निरुद्धो मूर्धन्विनिर्भिद्य विनिर्गतो बहिः ३१

तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान्सुहृदः परेतान्

दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनर्वक्त्रान्मुकुन्दो भगवान्विनिर्ययौ ३२

पीनाहिभोगोत्थितमद्भुतं महज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश

प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन्मिषतां दिवौकसाम् ३३

ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं

पुष्पैः सुगा अप्सरसश्च नर्तनैः

गीतैः सुरा वाद्यधराश्च वाद्यकैः

स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ३४

तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सवमङ्गलस्वनान्

श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद्दृष्ट्वा महीशस्य जगाम विस्मयम् ३५

राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम्

व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ३६

एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम्

मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ३७

नैतद्विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः

अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ३८

सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम्

स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ३९

श्रीसूत उवाच

इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम्

पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ४०

श्रीराजोवाच

ब्रह्मन्कालान्तरकृतं तत्कालीनं कथं भवेत्

यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ४१

तद्ब्रूहि मे महायोगिन्परं कौतूहलं गुरो

नूनमेतद्धरेरेव माया भवति नान्यथा ४२

वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः

वयं पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ४३

श्रीसूत उवाच

इत्थं स्म पृष्टः स तु बादरायणिस्

तत्स्मारितानन्तहृताखिलेन्द्रि यः

कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः

प्रत्याह तं भागवतोत्तमोत्तम ४४

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः