अथ पञ्चमोऽध्यायः

नारद उवाच

देवदेव नमस्तेऽस्तु भूतभावन पूर्वज

तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम् १

यद्रू पं यदधिष्ठानं यतः सृष्टमिदं प्रभो

यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः २

सर्वं ह्येतद्भवान्वेद भूतभव्यभवत्प्रभुः

करामलकवद्विश्वं विज्ञानावसितं तव ३

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः

एकः सृजसि भूतानि भूतैरेवात्ममायया ४

आत्मन्भावयसे तानि न पराभावयन्स्वयम्

आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ५

नाहं वेद परं ह्यस्मिन्नापरं न समं विभो

नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः ६

स भवानचरद्घोरं यत्तपः सुसमाहितः

तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ७

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर

विजानीहि यथैवेदमहं बुध्येऽनुशासितः ८

ब्रह्मोवाच

सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम्

यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ९

नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः

अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे १०

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्

यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ११

तस्मै नमो भगवते वासुदेवाय धीमहि

यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् १२

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः १३

द्र व्यं कर्म च कालश्च स्वभावो जीव एव च

वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वतः १४

नारायणपरा वेदा देवा नारायणाङ्गजाः

नारायणपरा लोका नारायणपरा मखाः १५

नारायणपरो योगो नारायणपरं तपः

नारायणपरं ज्ञानं नारायणपरा गतिः १६

तस्यापि द्र ष्टुरीशस्य कूटस्थस्याखिलात्मनः

सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः १७

सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः

स्थितिसर्गनिरोधेषु गृहीता मायया विभोः १८

कार्यकारणकर्तृत्वे द्र व्यज्ञानक्रियाश्रयाः

बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः १९

स एष भगवांल्लिङ्गैस्त्रिभिरेतैरधोक्षजः

स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः २०

कालं कर्म स्वभावं च मायेशो मायया स्वया

आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे २१

कालाद्गुणव्यतिकरः परिणामः स्वभावतः

कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् २२

महतस्तु विकुर्वाणाद्र जःसत्त्वोपबृंहितात्

तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः २३

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा

वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा

द्र व्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो २४

तामसादपि भूतादेर्विकुर्वाणादभून्नभः

तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः २५

नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः

परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् २६

वायोरपि विकुर्वाणात्कालकर्मस्वभावतः

उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् २७

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम्

रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् २८

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्

परान्वयाद्र सस्पर्श शब्दरूपगुणान्वितः २९

वैकारिकान्मनो जज्ञे देवा वैकारिका दश

दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रो पेन्द्र मित्रकाः ३०

तैजसात्तु विकुर्वाणादिन्द्रि याणि दशाभवन्

ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ

श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ३१

यदैतेऽसङ्गता भावा भूतेन्द्रि यमनोगुणाः

यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ३२

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः

सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः ३३

वर्षपूगसहस्रान्ते तदण्डमुदके शयम्

कालकर्मस्वभावस्थो जीवो ञ्जीवमजीवयत् ३४

स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः

सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ३५

यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणः

कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ३६

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः

ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ३७

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ३८

ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात्

मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ३९

तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोः

जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ४०

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम्

पातालं पादतलत इति लोकमयः पुमान् ४१

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः

स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ४२

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे पञ्चमोऽध्यायः ५

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः