अथ द्वितीयोऽध्यायः

श्रीशुक उवाच

आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः

क्षीरोदेनावृतः श्रीमान्योजनायुतमुच्छ्रितः १

तावता विस्तृतः पर्यक्!त्रिभिः शृङ्गैः पयोनिधिम्

दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः २

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः

नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ३

स चावनिज्यमानाङ्घ्रिः समन्तात्पयऊर्मिभिः

करोति श्यामलां भूमिं हरिन्मरकताश्मभिः ४

सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः

किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दरः ५

यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया

अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ६

नानारण्यपशुव्रात सङ्कुलद्रो ण्यलङ्कृतः

चित्रद्रुमसुरोद्यन कलकण्ठविहङ्गमः ७

सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः

देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ८

तस्य द्रो ण्यां भगवतो वरुणस्य महात्मनः

उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ९

सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः

मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः १०

चूतैः पियालैः पनसैराम्रैराम्रातकैरपि

क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ११

मधुकैः शालतालैश्च तमालैरसनार्जुनैः

अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः १२

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः

द्रा क्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः १३

बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः

तस्मिन्सरः सुविपुलं लसत्काञ्चनपङ्कजम् १४

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम्

मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः १५

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि

जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् १६

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः

कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् १७

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः

कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः १८

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः

शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः १९

तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन्

सकण्टकं कीचकवेणुवेत्रवद्विशालगुल्मं प्ररुजन्वनस्पतीन् २०

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः

महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः २१

वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च

अन्यत्र क्षुद्रा हरिणाः शशादयश्चरन्त्यभीता यदनुग्रहेण २२

स घर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्करभैरनुद्रुतः

गिरिं गरिम्णा परितः प्रकम्पयन्निषेव्यमाणोऽलिकुलैर्मदाशनैः २३

सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन्विदूरान्मदविह्वलेक्षणः

वृतः स्वयूथेन तृषार्दितेन तत्सरोवराभ्यासमथागमद्द्रुतम् २४

विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम्

पपौ निकामं निजपुष्करोद्धृतमात्मानमद्भिः स्नपयन्गतक्लमः २५

स पुष्करेणोद्धृतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही

घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया २६

तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत्

यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे २७

तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा

विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् २८

नियुध्यतोरेवमिभेन्द्र नक्रयोर्विकर्षतोरन्तरतो बहिर्मिथः

समाः सहस्रं व्यगमन्महीपते सप्राणयोश्चित्रममंसतामराः २९

ततो गजेन्द्र स्य मनोबलौजसां कालेन दीर्घेण महानभूद्व्ययः

विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत्सकलं जलौकसः ३०

इत्थं गजेन्द्रः! स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया

अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिथाभ्यपद्यत ३१

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम्

ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम् ३२

यः कश्चनेशो बलिनोऽन्तकोरगात्प्रचण्डवेगादभिधावतो भृशम्

भीतं प्रपन्नं परिपाति यद्भयान्मृत्युः प्रधावत्यरणं तमीमहि ३३

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रो पाख्याने द्वितीयोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः