अथ पञ्चचत्वारिंशोऽध्यायः

श्रीशुक उवाच

पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः

मा भूदिति निजां मायां ततान जनमोहिनीम् १

उवाच पितरावेत्य साग्रजः सात्वनर्षभः

प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम् २

नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि

बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित् ३

न लब्धो दैवहतयोर्वासो नौ भवदन्तिके

यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ४

सर्वार्थसम्भवो देहो जनितः पोषितो यतः

न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा ५

यस्तयोरात्मजः कल्प आत्मना च धनेन च

वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि ६

मातरं पितरं वृद्धं भार्यां साध्वीं सुतम्शिशुम्

गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः ७

तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः

मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः ८

तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः

अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम् ९

श्रीशुक उवाच

इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा

मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम् १०

सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ

न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ ११

एवमाश्वास्य पितरौ भगवान्देवकीसुतः

मातामहं तूग्रसेनं यदूनामकरोन्णृपम् १२

आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि

ययातिशापाद्यदुभिर्नासितव्यं नृपासने १३

मयि भृत्य उपासीने भवतो विबुधादयः

बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः १४

सर्वान्स्वान्ज्ञतिसम्बन्धान्दिग्भ्यः कंसभयाकुलान्

यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान् १५

सभाजितान्समाश्वास्य विदेशावासकर्शितान्

न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् १६

कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः

गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः १७

वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्

नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम् १८

तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः

पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः १९

अथ नन्दं समसाद्य भगवान्देवकीसुतः

सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः २०

पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्

पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि २१

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्

शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे २२

यात यूयं व्रजंन्तात वयं च स्नेहदुःखितान्

ज्ञातीन्वो द्र ष्टुमेष्यामो विधाय सुहृदां सुखम् २३

एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः

वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम् २४

इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः

पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ २५

अथ शूरसुतो राजन्पुत्रयोः समकारयत्

पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम् २६

तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः

स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः २७

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः

ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः २८

ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ

गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ २९

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ

नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ३०

अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः

काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम् ३१

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्

ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ ३२

तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः

प्रोवाच वेदानखिलान्सङ्गोपनिषदो गुरुः ३३

सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा

तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ३४

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ

सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप ३५

अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः

गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप ३६

द्विजस्तयोस्तं महिमानमद्भुतं

संलोक्ष्य राजन्नतिमानुसीं मतिम्

सम्मन्त्र्! य पत्न्या स महार्णवे मृतं

बालं प्रभासे वरयां बभूव ह ३७

तेथेत्यथारुह्य महारथौ रथं

प्रभासमासाद्य दुरन्तविक्रमौ

वेलामुपव्रज्य निषीदतुः क्षनं

सिन्धुर्विदित्वार्हनमाहरत्तयोः ३८

तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्

योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा ३९

श्रीसमुद्र उवाच

न चाहार्षमहं देव दैत्यः पञ्चजनो महान्

अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः ४०

आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः

जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम् ४१

तदङ्गप्रभवं शङ्खमादाय रथमागमत्

ततः संयमनीं नाम यमस्य दयितां पुरीम् ४२

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः

शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः ४३

तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्

उवाचावनतः कृष्णं सर्वभूताशयालयम्

लीलामनुष्ययोर्विष्णो युवयोः करवाम किम् ४४

श्रीभगवानुवाच

गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्

आनयस्व महाराज मच्छासनपुरस्कृतः ४५

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ

दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः ४६

श्रीगुरुरुवाच

सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः

को नु युष्मद्विधगुरोः कामानामवशिष्यते ४७

गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी

छन्दांस्ययातयामानि भवन्त्विह परत्र च ४८

गुरुणैवमनुज्ञातौ रथेनानिलरंहसा

आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ४९

समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ

अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव ५०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गुरुपुत्रानयनं नाम पञ्चचत्वारिंशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः