अथैकादशोऽध्यायः

श्रीशौनक उवाच

अथेममर्थं पृच्छामो भवन्तं बहुवित्तमम्

समस्ततन्त्रराद्धान्ते भवान्भागवत तत्त्ववित् १

तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः

अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः २

तन्नो वर्णय भद्रं ते क्रियायोगं बुभुत्सताम्

येन क्रियानैपुणेन मर्त्यो यायादमर्त्यताम् ३

सूत उवाच

नमस्कृत्य गुरून्वक्ष्ये विभूतीर्वैष्णवीरपि

याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजादिभिः ४

मायाद्यैर्नवभिस्तत्त्वैः स विकारमयो विराट्

निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम् ५

एतद्वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः

नाभिः सूर्योऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ६

प्रजापतिः प्रजननमपानो मृत्युरीशितुः

तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः ७

लज्जोत्तरोऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः

रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः ८

यावानयं वै पुरुषो यावत्या संस्थया मितः

तावानसावपि महा पुरुषो लोकसंस्थया ९

कौस्तुभव्यपदेशेन स्वात्मज्योतिर्बिभर्त्यजः

तत्प्रभा व्यापिनी साक्षात्श्रीवत्समुरसा विभुः १०

स्वमायां वनमालाख्यां नानागुणमयीं दधत्

वासश्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम् ११

बिभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले

मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम् १२

अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः

धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते १३

ओजःसहोबलयुतं मुख्यतत्त्वं गदां दधत्

अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम् १४

नभोनिभं नभस्तत्त्वमसिं चर्म तमोमयम्

कालरूपं धनुः शार्ङ्गं तथा कर्ममयेषुधिम् १५

इन्द्रि याणि शरानाहुराकूतीरस्य स्यन्दनम्

तन्मात्राण्यस्याभिव्यक्तिं मुद्र यार्थक्रियात्मताम् १६

मण्डलं देवयजनं दीक्षा संस्कार आत्मनः

परिचर्या भगवत आत्मनो दुरितक्षयः १७

भगवान्भगशब्दार्थं लीलाकमलमुद्वहन्

धर्मं यशश्च भगवांश्चामरव्यजनेऽभजत् १८

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम्

त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् १९

अनपायिनी भगवती शृईः साक्षादात्मनो हरेः

विष्वक्षेनस्तन्त्रमूर्तिर्विदितः पार्षदाधिपः

नन्दादयोऽष्टौ द्वाःस्थाश्च तेऽणिमाद्या हरेर्गुणाः २०

वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्

अनिरुद्ध इति ब्रह्मन्मूर्तिव्यूहोऽभिधीयते २१

स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः

अर्थेन्द्रि याशयज्ञानैर्भगवान्परिभाव्यते २२

अङ्गोपाङ्गायुधाकल्पैर्भगवांस्तच्चतुष्टयम्

बिभर्ति स्म चतुर्मूर्तिर्भगवान्हरिरीश्वरः २३

द्विजऋषभ स एष ब्रह्मयोनिः स्वयंदृक्

स्वमहिमपरिपूर्णो मायया च स्वयैतत्

सृजति हरति पातीत्याख्ययानावृताक्षो

विवृत इव निरुक्तस्तत्परैरात्मलभ्यः २४

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्

राजन्यवंशदहनानपवर्गवीर्य

गोविन्द गोपवनिताव्रजभृत्यगीत

तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् २५

य इदं कल्य उत्थाय महापुरुषलक्षणम्

तच्चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् २६

श्रीशौनक उवाच

शुको यदाह भगवान्विष्णुराताय शृण्वते

सौरो गणो मासि मासि नाना वसति सप्तकः २७

तेषां नामानि कर्माणि नियुक्तानामधीश्वरैः

ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः २८

सूत उवाच

अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनाम्

निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते २९

एक एव हि लोकानां सूर्य आत्मादिकृद्धरिः

सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः ३०

कालो देशः क्रिया कर्ता करणं कार्यमागमः

द्र व्यं फलमिति ब्रह्मन्नवधोक्तोऽजया हरिः ३१

मध्वादिषु द्वादशसु भगवान्कालरूपधृक्

लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः ३२

धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने

पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ३३

अर्यमा पुलहोऽथौजाः प्रहेतिः पुञ्जिकस्थली

नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ३४

मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहाः

रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ३५

वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहूः

शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ३६

इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः

प्रम्लोचा राक्षसो वर्यो नभोमासं नयन्त्यमी ३७

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः

अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ३८

पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा

घृताची गौतमश्चेति तपोमासं नयन्त्यमी ३९

ऋतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा

विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ४०

अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी

विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ४१

भगः स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चमः

कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमी ४२

त्वष्टा ऋचीकतनयः कम्बलश्च तिलोत्तमा

ब्रह्मापेतोऽथ सतजिद्धृतराष्ट्र इषम्भराः ४३

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित्

विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ४४

एता भगवतो विष्णोरादित्यस्य विभूतयः

स्मरतां सन्ध्ययोर्नॄणां हरन्त्यंहो दिने दिने ४५

द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै

चरन्समन्तात्तनुते परत्रेह च सन्मतिम् ४६

सामर्ग्यजुर्भिस्तल्लिङ्गैरृषयः संस्तुवन्त्यमुम्

गन्धर्वास्तं प्रगायन्ति नृत्यन्त्यप्सरसोऽग्रतः ४७

उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः

चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ४८

वालखिल्याः सहस्राणि षष्टिर्ब्रह्मर्षयोऽमलाः

पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ४९

एवं ह्यनादिनिधनो भगवान्हरिरीश्वरः

कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ५०

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे आदित्यव्यूहविवरणं नामैकादशोऽध्यायः

સ્કંધ/અધ્યાય

વચનામૃત સંદર્ભો

प्रथमः स्कन्धः

द्वितीयः स्कन्धः

तृतीयः स्कन्धः

चतुर्थस्कन्धः

पञ्चमः स्कन्धः

षष्टः स्कन्धः

सप्तमः स्कन्धः

अष्टमः स्कन्धः

नवमः स्कन्धः

दशमः स्कन्धः

एकादशः स्कन्धः

द्वादशस्कन्धः